________________
जयोदय-महाकाव्यम्
[४४-४८ सम्ववार तम् । भान्तं शोभनीयमित्येतत्कुचकुड्मलान्तस्यास्ति विशेषण। तु पुनर्दकारेण सहितं सदं च तं लमर्थात् दलं पल्लवं प्रति कर्तुमुद्यमी यावदभूतावद्धान्तं कुड्मलान्तमाच्छादयदिति युक्तमेव ॥ ४३ ॥ विलासवत्या उदितावकस्मात्पयोधरौ श्रीकलशाविवास्मात । वितेनतुर्मङ्गलमुद्यतस्य जगद्विजेतुं रतिवल्लभस्य ॥४४॥ राजाभिषेकाम्बुघटौ स्मरस्य निधानकुम्भाविव यौवनस्य । रतेरिवाक्रीडधरौ धवेन प्रोद्घाटितौ स्त्रीस्तनको जवेन ॥४५॥
सुगमामेतौ मुदञ्चभावेन कुचौ सुपीनौ करौ स्फुरद्धस्ततलौ ज दोनौ । कुतोऽत्र पर्याप्तिमगच्छतां तौ नतभ्रुवश्चावनिपस्य भान्तौ ॥४६॥
मुदञ्चभावेनेत्यादि-नतभ्र वः सुलोचनायाः कुचौ तावधुना मुदञ्चभावेन प्रसत्ति कृतोदञ्चनन सुपीनी पूर्वापेक्षयापि पीनतरौ जातो। च पुनरवनिपस्य भान्ती शोभमानौ करौ तो स्फुरत् समुञ्चद् हस्ततलं यत्र तावतएव संकोचभावेन दीनावल्पपरिमाणो जातावित्येवं तौ चात्र कुचसंमर्दने कुतः कस्मात्कारणात् पर्याप्तिमनुकूलतामगच्छतां न कथमपि ॥ ४६॥ मेरोः शिलामूलधने प्रियायाः कुचोच्चये सोमतुजोऽभ्युपायात् । भयोऽभिपातेन नखैः प्रकाममवापि भुग्न खरेति नाम ॥४७॥
मेरोरित्यादि-सोमतुजः सोमप्रभतनूजस्य जयकुमारस्य नखैः करारभ्युपायात् प्रयत्नविशेषात्समेत्य मेरोदेवगिरेः शिलामूलवद्धनेऽतिशयकठोरे प्रियायाः सुलोचनायाः कुचोच्चये स्तनमण्डले भूयः पुनः पुनरभिपातेन सम्पततेन हेतुना प्रकाममत्यर्थ यथा स्यात्तथा भुग्नैश्छिन्नभिन्नाग्रभागैरेवं तदानी खरास्तीक्ष्णा न भवन्तीति 'नखरा' इत्येतन्नाम-वाच्यताऽवापि लब्धा ॥ ४७ ॥
दृढ़ च यूनः करवारमाप्स्वाप्यपत्रतावापि किलाकुलेन । कुण्ठात्मकोरः कठिनेन तन्व्यास्तथापि नानामि मनाक् कुचेन ||४८॥
दृढमित्यादि-यूनस्तस्य जयकुमारस्य करवारं हस्तप्रहारं किल निश्चयेनाकुलेन कल्पनान्तरमितेन तदानीं तेनापत्रता निश्छदताऽगुरुचन्दनादिकृतपत्ररचनाहीनताऽवापि तेन तन्व्याः सुलोचनायाः कुचेन, तथापि कुण्ठात्मकेन सुदृढस्वरूपेणोरसा वक्षःस्थलेनेति हेतुना कठिनेन सहजकठिनेन चोरःसहायमितेन तेन मनागपि नानामि नम्रता न स्वीकृता। तथा करवालं नामायुधप्रहार माप्त्वा तेनापत्रता वाहनहीनताऽवाप्ता पुनरपि तदधीनता न स्वीकृता। 'पत्र छदनमाख्यातं पत्रो घोटक इत्यपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org