SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ४०-४३ ] सप्तदशः सर्गः ७९९ सुधाश्रयं प्रागधरं समाहावराङ्गपानेषु कृतावगाहा । सद्भा रतप्रान्तगतं मुहुर्वाऽवदत्तरामुद्गतवेपथुर्वाक् ॥४०॥ सुधाश्रयमित्यादि-वाग्वाणी जयकुमारस्येति शेषः । अवराया रलयोरभेदादबलायाः सुलोचनाया अङ्गपानेषु, कोदृशेषु ? आवराङ्गपानेषु वैराङ्गपर्यन्ताङ्गस्वादनेषु कृतावगाहा, सती समीचीनाभा प्रभा स्फूतिर्यस्याः सा सम्भवती प्राक् प्रथमं तु अधरमोष्ठदेशं सुधाया आश्रयं स्वर्गमेव समाह, यद्वा रतस्य प्रान्ते गतमनुभूतं सुधाश्रयमधरं नीचे रूपं गुणहीन समाह, तथा तमेव मुहुर्वानुभूय पुनरुद्गतवेपथुः समारब्धसात्त्विकप्रकम्पना सम्भवती सैव वाक् तमेवाधरं सद्भारतस्य वर्षस्य प्रान्तगत हिमालयपर्वतमिवावदत्तराम् ॥ ४०॥ स्मितामृतांशैः परितोषितत्वात्तवोरु सम्बाहनमैमि सत्त्वात् । इत्युक्ति लेशेन तदुक्तदेशे करं पवित्रं कृतवानशेषे ॥ ४१॥ स्मितामृतांशैरित्यादि-हे सुन्दरि ! तव स्मितमेवामृतं तस्यांशैर्लेशैः परितोषितत्वात्सन्तोषभावभागतत्वावहं तवोर्वोः सम्वाहनं पावचम्पन मिति किल सत्त्वात् कृतज्ञतामाश्रितत्वादमीत्युक्तिलेशेन एवं प्रकारकवचनोच्चारणेन स जयकुमारस्तस्याः सुन्दर्या उक्तदेशे ऊरूयुगप्रदेशे पवित्र मृदुतरं करं हस्तमशेषे नीचरारभ्योपरिपर्यन्तं सम्पूर्ण एव कृतवान् ॥ ४१ ॥ आप्तुं कुचं हेमघटं शुशोच सकोऽररं कचुकमुन्मुमोच । चुकूज तन्व्या मृदुबन्धनश्वाभूद्रोमराजी प्रतिबोधभृद्वा ॥४२॥ आप्तुमित्यादि-स एव सको जयकुमारश्चौर इव तन्व्याः दुलोचनायाः कुचमेव हेमघट सुवर्णकलशमाप्तुमात्मसात्कर्तु शुशोच चिन्तयामास, तदर्थ कञ्चुकनाम कुचाच्छादनवस्त्रमवारर कवाटमुन्मुमोचोद्घाटयामास । तदानीमेव कशनमिति ( ? ) मृदु. सुकोमलं बन्धनमेव श्वा कुक्कुरश्चुकूज शब्दं चकार प्रतिबोधनार्थमिवेति यावत् । तटा रोमराजी लोमावली प्रतिबोधमृदभूत् जागरिता जाता। संहर्षवशाद्रोमाञ्चनमभूदिति ॥ ४२ ॥ सदं चलं संप्रतिकर्तु मीश करोऽङ्गनावक्षसि तुद्यमी सः । अभूच्छुभाछादयदामु भान्तं भूजालताभ्यां कुचकुङ्गलान्तम् ।।४३॥ सदञ्चलमित्यादि-ईशास्य करो हस्तोऽङ्गना वक्षसि सम्यगञ्चलं छादनवस्त्र संप्रतिकर्तुमपहर्तुमुद्यमी अभूत् । तदा सा शुभा लज्जावती आशु शीघ्रमेव कुचकुङ्गलयोः स्तन कोरकयोरन्तं प्रान्तं भुजालताभ्यां बाहुवल्लीभ्या माच्छादयत्। मा स्पृशतादिति १. 'वराङ्गमूर्धगुह्ययो' रित्यमरः 'वराङ्ग मस्तके योनौ' इति विश्वलोचनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy