SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ७९८ जयोदय-महाकाव्यम् [ ३६-३९ सारोऽभ्युदारो दयिते तवायं हारं समारब्धुमितीद्धमायम् । आरभ्य नाभे रसिकेन सम्यगाकण्ठमाश्लेषि वविनम्य ॥३६॥ __ सार इत्यादि-दयिते ! हे प्रिये ! तवायं दृश्यमानः हार इत्यर्थः सारः श्रेष्ठोऽभ्युदारोऽत्युत्कृष्टश्च वर्तते इति हारं स्तनोपरि विभ्राजमानं ग्रैवेयकं समारब्धु संस्पृष्टु इद्धा माया यस्मिन् कर्मणि यथा स्यात्तथा नाभेरारभ्य आकण्ठं कण्ठपर्यन्तं रसिकेन रसवता नायकेन वधूः सुलोचना विनम्य नम्रीभूय सम्यग् सुष्ठ आश्लेषि समालिङ्गिता । नाभेरारभ्य कण्ठपर्यन्तमालिङ्गितवानिति यावत् ॥३६॥ किलाभिभूतं स्मरवह्निमत्यादराद्धसन्त्या हि विभूतिमत्या। विकाशयामास शयाशयेन यथापशैत्यं जयराट् स तेन ॥३७॥ किलाभिभूतमित्यादि-बलादित्यादि वृत्तप्रकारेण हसन्त्याः प्रहसनसहितायास्तस्या हसन्त्या अङ्गारिकाया इव विभूतिमत्या वैभवशालिन्याः पक्षे भस्मतूलवत्या अभिभूतं संगुप्तं स्मरवह्नि मदनानलं स जयराट् चरितनायकः 'सारोऽभ्युदार-' इत्यादि वृत्तविहितविधिना तेन शयस्य हस्तस्याशयेन सञ्चालनेन कुत्सेरणेन वात्यादरात् समादरणपरिणामात् अपशैत्यं स्फूतिसत्करणं निरनुष्णत्वं वा यथा स्यात्तथा विकाययामास ॥३७॥ शनैश्च पश्चान्निरकाशि तेन भीींश्च नेत्रा शयचालनेन । रहो महोमन्त्रभिदा विदारादपजि साध्व्या स्मितपुष्पधारा ॥३८।। शनैश्चेत्यादि-रहसः स्त्रीप्रसङ्गस्य मह उत्सवस्तस्य मन्त्रभिदां संसिद्धिकरण. प्रकारं वेत्तोति तेन नेत्रा भी जयकुमारेण पश्चात् पूर्वोक्तक्रमानन्तरं सखिनिष्काशनानन्तरं वा शनैर्मन्दं मन्दं यथा स्यात्तथा शयस्य हस्तस्य चालनेन भीश्च ह्रीश्च निरकाशि निष्काशिता बहिष्कृताभूत्, तदैवारात्सत्वरमेव साध्व्या तया सत्यापि स्मितपुष्पाणां धारा परम्पराप्यपूजि सम्पूरिता ॥३८॥ जयाननेन्दुः सुदृगास्यपद्मश्रियान्वयं प्राप्य मुदेकसम । 'सानङ्गता किन्न यशोधमा यदलम्बि वैरस्यविशोधनाय ॥३९॥ जयाननेन्दुरिति-जयस्यानन मेवेन्दुरालादकत्वात्, स सुदृशः सुलोचनाया आस्य मेव पद्म तस्य श्रिया शोभया सहान्वयं सम्बन्धं प्राप्याधुना मुदः प्रसन्नताया एकमद्वितीयं सद्म स्थानं बभूव । सेयमनङ्गता कामदेवपरिणतिरथवाऽनङ्गताऽसंघटितघटनात्मिका वस्था किं खलु नयशोधना नोतिपरिवृत्तिरतएव चैषा यश एव धनं यस्याः सा यशोधन किन्न भवति, किन्तु भवत्येव, यत्सा वैरस्य विद्वषपरिणामस्य विशोधनाय यद्वा वैरस्यस्य नीरागपरिणामस्य विशोधनायालम्बि स्वीकृताभूत् ॥ ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy