SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १९७ ३२-३५ ] सप्तदशः सर्गः मादाय स किन्न सिस्मिये किन्तु सिस्मिये । इत्थमुक्ति गदितास्मि वदाम्यहम् । येनेत्येतस्य पदस्य निम्नवृत्तेन सहान्वयः ॥३१॥ ह्रीणां न वीणां कुरुषे गिरा वा न कौमुदोवासि मृदुस्मिता वा । अथाध मुकासि कुतोऽप्यनकात्तत्तान तामित्यपि वावदूकाम् ॥३२॥ ह्रीणामित्यादि - हे अङ्ग ! गिरा मृदुलतरवाचा स्वकीयया वीणां ह्रीणां लज्जितां न कुरुषे, कौमुदीव चन्द्रिकावत् मृदु मधुरं स्मितं हसितं यस्याः सापि वा न भवसि, अद्य कुतोऽप्यनूकात् केनापराधेन वा मूकासि न हससि न वदसि न किमपि चेष्टसे, इत्येव मथ निगद्य तां मौनशीलामपि वावद्रकां ततान यतः सा निम्नप्रकारेणोक्तवती. बभूव ॥३२॥ वाणी कृपाणीव न कर्कशार्यास्मि कौमुदी वन्न कलङ्किभार्या । नूनं तनू भो सभयाऽनिवार्या पात्रपायाच्च कुलीननार्याः ॥३३॥ ___ वाणीत्यादि-हे आर्य ! वाणी या मर्मच्छेदकरी कृपाणी असिपुत्रिका तद्वत्कर्कशा कठोरपरिणामा नास्मि तथा कौमुदीवत् कलङ्किनः कलङ्कयुक्तस्य चन्द्रमसो वा भार्या न भवामि किन्तु भवच्चरणसेविकास्मि कुलीनाङ्गना । अत्र पुनः कुलीननार्याश्च तनु भयेन सहिता सभया त्रपा लज्जा या किलानिवार्य न केनापि वारयितुं शक्या । अथवा सभया निवार्या विद्वद्गोष्ठ्यैव निवार्या 'सभायां लज्जा न कार्या विद्वद्भिरिति' सा लल्जा. नूनं निश्चयेन पायात् रक्ष्यात् ॥३३॥ बलादुपात्ताधरचुम्बनाय नता निपीता दृशि सस्मिता यत् । धवस्य दृष्ट्वाधरमात्ततत्थं विधोः कलेवाब्धिमुताह सूत्थम् ।।३४॥ बलादित्यादि-ततोऽधरचुम्बनाय बलादुपात्तात एव नता नम्रमुखो जाता तस्मात् रदच्छदेन निपीय दृशि चक्षुषि निपीता तस्मात् धवस्य स्वामिनो यदधरमाततुत्थमात संगृहोतं तुत्थमञ्जनं येन तत्तादृशं दृष्ट्वा सस्मिता भवन्ती तदान्धि समुद्रं विधोः कलेव सा तमुप्त सम्यगुत्थानं तत्परत्वं यस्य तं सूत्वं आह गदितवती कृतवतीत्यर्थः ॥३४॥ पत्या च रत्यादरिणी निपीतरदच्छदप्रोज्छनकारिणीतः । परं म तस्यैव हि रागभागाभिव्यक्तये स्वस्य हृदोऽपि चागात् ॥३५॥ पत्येत्यादि-रतिबदादरबती रत्यादरिगी सा पत्या स्वामिना निपीतस्य रदच्छदाधरौप्यस्थ प्रोञ्छनकारिणी सम्मार्जनकी, इतः परं सा तस्यैव स्वरदच्छदस्य रागभावा. भिव्यक्तये एवं परं केवलं नागात् किन्तु स्वस्य हृदोऽपि अन्तरङ्गदेशस्यापि रागभावाभिव्यक्तयेऽगात् जगाम प्रवृत्ताभूत् प्रोञ्छनेन यथा यथाधरस्यारुणिमपरिणामाभिव्यक्ति रभूत्तथा हृदये लज्जांशापगमादनुरागाभिव्यक्तिरपीति यावत् ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy