________________
जयोदय-महाकाव्यम्
[ २७-३१ दिने तु नेतुविरहासहन्वान्निशः प्रभोः सङ्गदिशः स्मरन्ती। दिनोदयं सा पुनरिच्छतिस्म स्मरक्रियां भर्तुरनुत्तरन्ती ॥२७॥
दिनेत्वादि-स्पष्टमेतत् । निचुम्बने ह्रीणतया नतास्या स्विन्ने हवीशप्रतिबिम्बभाष्यात् । समुन्नमय्याशुमुखं सुखेन बाला ददौ चुम्बनकं तु तेन ॥२८॥
निचुम्बन इत्यादि-निचुम्बने चुम्बनकाले बाला सुलोचना ह्रीणतया लज्जालुतया नतं विनम्रमास्यं मुखं यस्याः सती तस्मिन्नेव काले सात्विकतया स्विन्ने स्वेदपरिपूणे हृदि स्ववक्षःस्थले ईशस्य सम्मुखस्थ प्राणनाथस्यैव यत् प्रतिबिम्ब तस्य भाष्यात् स्पष्टोकरणात् तस्मात् पुनरपि लज्जिता सती आशु शीघ्रमेव मुखं समुन्नमय्य तेन कारणेन तु पुनः सुखेनानायासेनेष चुम्बनकं ददौ ॥ २८ ॥
रतिहियोः प्रेक्षणकारिणीशान्वाशाजुषः कुण्डलकद्वयी सा । तिरोनताभ्युन्नतवक्त्रभाजस्तुलेव लोला सुतनो रराज ।।२९॥
रतिहियोरत्यादि-ईशमनु आशा दिशा तां जुषति सेवते तस्याः प्राणनाथसम्मुखीनायाः तिर एकतो नतमन्यतोऽभ्युन्नतं वक्त्र भजतीति तस्याः सुतनोः सुन्दर्याः लोला चञ्चला या कुण्डलकद्वयो सा रतिश्च ह्रीश्च तयोः प्रेक्षणकारिणी-कतिमात्रा ह्री: कतिमात्रा रतिरधुना सजातेत्येव प्रेक्षणीतुलंव रराज ॥ २९ ॥ विचुम्बतोऽधीश मुखस्य शीतकरत्वमित्युक्तवती सतीतः । सत्त्वोद्भवद्वेपथुका तु तानि वितन्वती सम्प्रति सीत्कृतानि ॥३०॥
विचुम्बत इत्यादि-सती सत्संसर्गवती सा सम्प्रति चुम्बनकाले सत्वेन प्रसक्तिभावेनोवती वेपथुः प्रकम्पनं यस्याः सा स्वार्थे कप्रत्ययः सत्प्रकम्पवतीतश्च तानि हर्षसजातानि सीत्कृतानि वितन्वती सन्दधती विचुम्बतश्चुम्बनं कुर्वतोऽधीशमुखस्य वल्लभवक्त्रस्य शीतकरत्वं शीता अनुष्णाः करा: किरणा यस्य तद्भावं चन्द्रमस्त्वमुत च शीतं हिमतपरिणामं करोतीति तद्रूपत्वमिति एवं रूपेण प्रकम्पनपूर्वकसीत्कार करणेनोक्तवती ॥३०॥ न याचनातो ददती कपोलमथान्यहृत्को स्मरसिन्धुकोलः । कृत्वा तवादाय स सिस्मिये न किमित्थमुक्ति गक्तिास्मि येन ॥३१॥ ___ न याचनात इत्यादि-स्मरसिन्धौ कामशास्त्रसमुद्र कोलः सन्तरणकाष्ठ इव योऽसौ सुरतक्रियाकुशलो जयकुमारो याचनातः कपोलं न ददतीमथ पुनरन्यहृत्का मन्यत्र क्वचिदपि दत्तमनस्कां कृत्वा समिषवार्तालापे तामेव समुत्तार्य ततस्तत्तस्याः कपोल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org