________________
२३-२४-२५-२६
सप्तदशः सर्गः
वचनं तां सुलोचनां विश्वासमयेऽयने मार्गे कर्तव्यपथे नेतु प्रवर्तयितुमासीत् संजातं । तु विशेषे ॥ २२॥
न याचिता सा सुरताय वाचमदात्तदाऽवादि मुहुःस्तवा च । जयेन येनासि समात्तमौना जानामि नानादरिणीं रतौ ना ||२३||
७९५
1
न याचितेत्यादि -- पूर्वोक्तप्रकारं मुहुः पुनः पुनः कृतः स्तवः स्तवनं यस्याः सा मुहुःस्तवासा सुलोचना सुरताय याचिता सती वाचं नादात् न किमप्युक्तवती तदा जयेन पुनरप्यवादि उक्तं यत्किल हे प्रिये ! मया प्रार्थितापि त्वं येन कारणेन समात्तमौनासि न किमपि प्रतिवदसि तेनैवाहं ना सुविचारशील: पुरुषस्त्वां 'मौनं सम्मतिलक्षणम्' इति सूक्तेन त्वां रतौ सुरतक्रीडायां न विद्यतेऽनादर उन्मनस्कप्रकारो यस्यास्तामुत च नानानेकप्रकारक आदरोऽनुकूलभावो यस्यास्तां जानामि इत्येवमुक्ते ॥२३॥
समाह सा सम्प्रति नेति नेति स स्मामृतेनेव मुदं समेति । अहो भवत्या भुवि नद्वयेन समर्थितं मत्लपितं हितेन ॥ २४ ॥
समात्यादि- - सा च सम्प्रति आलिङ्गनविषयिण्याः सम्मत्याः सम्प्रदानकाले नेतिनेति समाह नहि नहि किलालिङ्गनं वाञ्छामीति । तदा स तस्या नेति नेति सूक्तेना मृतेनेव मुदं समेतिस्म । तत्कथमिति स्पष्टयति- भुवि धरायां भवत्या त्वया नद्वयेन नकारयोद्वितयेन हितेन प्रेम्णा मल्लपितं मदुक्तमेव समर्थित स्वीकृतमिति ॥ २४॥ सा काममुत्सङ्गकृतापि तेन साऽऽकाममुत्सङ्गकृतापिते न । वाञ्छामि बालेऽन्तलतामतोऽहं वाञ्छामि बालेऽन्तलतामतोऽहम् ॥ २५
साकाममुदित्यादि-सा प्रसिद्धा सुलोचना काममुत् मदनमोहवतीत्यतः सङ्गकृता प्रसङ्गकर्त्रा तेन जयकुमारेण तदा हे बाले ! भद्रपरिणामिनि । अहं तव वाले लोम्नीन्यपि अन्तलतां रलयोरभेदादन्तरतां व्यवधानपरिणति वाञ्छामि जानामि लोमकृतव्यवधानमपि त्वया सह न शक्नोमि अतोऽहमन्तमन्यस्थानं लाति गृह्णातीत्यन्तलस्तस्य भावोऽन्तलता तया मतं सम्मतमूहं वितकं न वा वाञ्छामि मदन्यत्स्यानस्थित तव नेच्छामि इत्युक्तिपूर्वकं 'सा सुन्दरी आकामं यथेच्छमुत्सङ्गे स्वक्रोडदेशे कृता स्थापिताऽऽपि समारब्धा ॥ २५ ॥ दत्तशयद्वयं सा ।
स्खलत्तदन्यश्रवणावतंसानुयोजने
मुखं तिरः क्लृप्तवती सुगात्रो भर्त्रे कपोलस्य बभूव दात्री ||२६||
स्खलदित्यादि - तवोत्सङ्गकरणकाले स्खलतः प्रच्यवतः तस्मात्समुद्दिष्टावन्यस्य श्रवणस्यावतंसस्ताटङ्कस्तस्यानुयोजने दत्त प्रयुक्तं शययोर्हस्तयोर्द्वयं यत्र तत्स्वकीयं मुखं तिर: क्लृप्तवती प्राणेशदिशि कुर्वती सा सुगात्री भर्त्रे स्वामिने कपोलस्य दात्री सहजमेव बभूव ।। २६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org