________________
७९४.
जयोदय- महाकाव्यम्
[ १९-२०-२१-२२
लुप्ता न संकोचतती रमायाः कृताः प्रणेत्रा बहुशोऽप्युपायाः । अपत्रपा स्यादिह सात्रपापि तेनाथ भूयो गुणसंकटापि ॥ १९ ॥
लुप्तेत्यादि - प्रणेत्रा वल्लभेन बहुशोऽपि पूर्वोक्तरीत्या उपायाः कृतास्तथापि रमाया लक्ष्मीस्वरूपायास्तस्याः संकोचततिर्लज्जालुता न लुप्ता । अथ पुनः सा त्रपापि न पत्राणि पाति रक्षतीत्यपत्रपा पल्लवभावरहिता स्यात् । अथवाऽपत्रपा निर्लज्जतां नीता स्यादित्येवमभिप्रायवता तेन सा भूयः पुनरपि गुणैरनुनयविनयादिभिः संकटा समाप्तक्षेत्राऽऽपि प्राप्ता । वल्लीगुल्मादिकं पल्लवनक्षत्राभावे न पल्लवितं भवति तथा जनसमाजसमागमेऽ नवकाशतया स्त्री विनिर्गच्छति तथैव त्रपापीति यावत् ॥ १९॥
आयाति नाथे सुतरां निरस्ता वागादिसख्यः खलु यास्तु शस्ताः । लज्जाऽपलज्जा भवतीव कान्तसमागमेऽस्याः समगादुपान्तम् ||२०॥
आयातीत्यादि- - अस्या: सुलोचनाया वाक् वाणी आदिर्यासां ताइच ताः सख्यश्च प्रगतिविश्वतोवलोकनवृत्तिरेवमादयो यास्तु शस्ताः प्रशंसायोग्यास्तास्तु नाथे भर्तरि आयाति नैकट्यमञ्चति सत्येव सुतरां सहजतयैव निरस्ताः किन्तु लज्जानाम सखी अपलज्जा स्वयं लज्जाविहीना भवतीव कान्तस्य समागमे संयोगसमये प्रत्युतोपान्तं सामीप्यात्सामीप्यतरं समगात् । प्रियसंसर्गे वचनशून्यत्वं निश्चेष्टतां चासाद्य होणतरा जातेत्यथः ॥२०॥ त्रपात पापिन्यपयातु केन क्रमेण कृत्वेति सुवर्षणेन । श्रीवारिदेनानुनयान्वयादिनदी त्वदीना सहसोदपादि ॥ २१ ॥
त्रपेत्यादि - अत्रास्मिन् प्रसङ्गे पापिनी मनोरथवाधकतया पापवती त्रपा लज्जा केन क्रमेण कृत्वा केन प्रकारेण अपयातु दूरीभवतु इतोत्थं अदीना दैन्यरहिता अनुनयान्वयनदी अनुनय वाक्परम्परा श्रीवारिदेन मेघेनेव वारिदेन वचनोच्चारणकुशलेन तेन वल्लभेन सहसा झटिति उदपादि उत्पादिता समुच्चारिता । सुवर्षंणेन सुवर्षणशीलेन मेघेन नायकपक्षे शोभनवचनोच्चारणतत्परेण । वारि जलं ददातीति वारिदो मेघस्तेन नायकपक्षे वारि सरस्वतीं वाचं ददातीति वारिदस्तेन 'वारि: सरस्वतीदेव्यां वारि होवेरनीरयोः' इति विश्वलोचनः ॥२१॥
इवालिरस्मीह तु कौतुकाय लताङ्गि ते जातु न वास्त्वपायः । मयेति विश्वासमयेऽभिनेतुस्तां नेतुमासीत्सुवचोऽयने तु ॥ २२ ॥
इवालिरित्यादि हे लताङ्गि | वल्लीसदृशसुकोमलशरीरवति ! अहमिव तव कौतुकाय विनोदाय पक्षे कुसुमाय आलिः सखीव, अथवा भ्रमरवदस्मि, मया ते जातुचिद् अपायो हानिनं वास्तु नैव भवेत्, इत्येवं प्रकारकमन्यदपि अभिनेतुर्वल्लभस्य सुवचः शोभनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org