________________
१५-१६-१७-१८ ]
सप्तदशः सर्गः
उत्थातुमर्हः स्तनपो हरारिहिया भयेनापि पुनर्व्यवारि । यथा कुदृष्ट्या दुरितेन सम्यग्गुणः पवित्राभ्युदयै कगम्यः || १५ || उत्थातुमित्यादि - उत्थातुमहं उद्भवनशीलो हरारिः कामः स्तनपः शिशुरिव स ह्रिया लज्जया भयेनापि पुनन्यंवारि वारं वारं न्यषेधि, यथा पवित्राभ्युदयेकगम्यः पुण्यकर्मजन्मा सम्यग्गुणः सच्छ्द्धापरिणामः कुदृष्ट्यानुचितशिक्षया दुरितेन मांसासनाविना कुचेष्टितेन निवार्यते तथा ॥ १५ ॥
ही क्रीडितुं स्थातुमथात्र कामः न सन्विदेशाब्जदृशः स्म नाम | प्रत्याव्रजन्त्यर्द्धपथाद्धि वाणास्तिरश्चरन्तोऽपि दृगन्तवाणाः ॥ १६ ॥
हीत्यादि - अथात्रास्मिन्नवसरे कामो मदनः क्रीडितु ं क्रीडां कर्तुं स्यातुं वा अब्जवृशः कमललोचनायाः सुलोचनायाः न सन्दिवेश सन्देशं दत्तवान् नामेति संभावनायां स्मेति पादपूरणे, होति विस्मये 'हो विस्मयविषादयो:' इति विश्वलोचनः । अतएव हि निश्चयेन दुगन्तवाणाः कटाक्षशरा एवं वाणाः शराः, तिरश्चरन्तोऽपि तिर्यक्ब्रजन्तोऽपि अर्द्धपक्षात् अर्द्ध मार्गात् प्रत्याव्रजन्ति प्रत्यागच्छन्ति वल्लभं द्रष्टुमुत्सुका अपि कटाक्षास्त्रपावशात् प्रतिनिवर्तन्त इति भावः ।। १६ ।।
तनौ लतायां क्वचिदेव गूढ ऽङ्गकेऽपि दृष्टि निदधत्यमूढ े । तामागतां धर्तुमिवाववारां शुकेन तत्राम्बुजलोचनारात् ॥१७॥
तनावित्यादि-न मूढो भवतीत्यमूढस्तस्मिन् समुचितकर्तरि भर्तरि तस्यास्तनो लतायामिव सुकोमलायां क्वचिदेव गूढे वस्त्राच्छावितेऽपि अङ्गकेऽवयवविशेषे दृष्टिं निदधति सति तत्राम्बुजलोचना कमलनयनी तामागतां प्रियस्य वृशं धर्तुमिवाराच्छीघ्रमेवांशुकेन दुकूलेनावकाराच्छावितवती । भ्रमरी त्यादिकं धतुं वस्त्र णाच्छादयतीति बालजाति: । शाढकेन सम्यङ् निगूढमप्यङ्गं प्रागल्भ्येन कस्मिश्चिदभिपश्यति सति समुद्घाटितभ्रमेण तत्र मुहरावरणकरणं नवोढाजातिः ॥ १७॥
नापोपकण्ठं सहसोपकण्ठीकृतापि यूना पिकमज्जुकण्ठी । नैकासने कासनिताप्यसुप्ता संज्ञायिता वावयवेषु गुप्ता ||१८||
नापेत्यादि - पिकस्य कोकिलस्येव मज्जु मधुरं कण्ठं यस्याः सा सुलोचना सहसोनकण्ठं समीपदेशमपि नाप नैवाजगाम । अपि पुनर्यू ना प्रगल्भेन तेनोपकण्ठीकुत्ता कथमपि सामीप्यं नीतापि, एकमभिन्नमासनं प्रियेण सह यस्याः सेना सा न बभूव, पुनरेकासनिताप्येकासने स्थापितापि असुप्ता पुनः संशायिता शयनभावं नीतापि सती अवयवेषु निजाङ्गप्रत्यङ्गेषु गुप्ता समाच्छादितसकलावयवा जाता, न किन्तु निःसंकोचा बभूवेति
यावत् ॥१८॥
Jain Education International
७९३
For Private & Personal Use Only
-
www.jainelibrary.org