________________
७९०
जयोदय-महाकाव्यम्
[४-५-६-७ संकोचभृत्पद्मधुरा पुरा तु कुमुदती सालिरिता नु मातुम् । सौरभ्यमेकान्ततयात्र तेन तदा सभासारजनो हितेन ॥४॥ संकोचभदित्यादि-अत्र लोके तदा दिनावसानकाले तेन राज्ञा चन्द्रमसा वा। कीदृशेन तेन ? सभासारजनोहितेन भैनक्षत्र: सहिता सभा रात्रिस्तत्र सारोऽवश्यकर्तव्यतया सम्मतो जनीनां स्त्रीणां हितमोहितं वा येन तेन पक्षे भासा दीप्त्या सहितेन सभासा रजन्या निशाया हितेन मङ्गलका | एकान्ततयाऽनन्यभावतया सौलभ्यं सुलभभावं पने निश्चितरूपेण सौगन्ध्यमनुमातुसा को पृथिव्यां मुद्वती कुमुदती सुलोचना पक्षे कैरविणी पुरा तु प्रथममेव संकोचभृती पदे चरणो यस्यास्सा लज्जानुभावेन संकुचन्तीत्यर्थः । मधुरा रमणीया पक्षे संकोचभृत् च पद्मधुरा कमलिनी यत्र सा, आलिभिः सखीभिः सहिता पक्षे सषट्पदा, इता प्राप्ता ।। ४ ॥
तां सम्पदामभ्युपगम्य धात्री सम्वाधमध्यादुपभोगपात्रीम् । ततः समुद्धमिवाभ्यवाञ्छच्छनैरसौ निःस्व इवाध्वयात्री ॥५॥
तामित्यादि-असौ जयकुमारः निर्गतं विनष्टं स्वं धनं यस्य स निर्धनोऽध्वयात्री प्रवासकर्तेव भवन समीचीनं पदं स्थानं यस्यास्तां सुलोचनां धनसम्पदां धनसमृद्धिमिवोपभोगस्य पात्री पुनःपुनरनुभवनयोग्यामभ्युपगम्य ततः पुनस्तां धात्रीसम्वाधो मातृवर्गस्तन्मध्यात् पक्षे पृथ्वीप्रतलान्तरात् शनिभृतमिव समुद्धतु स्वसाकर्तुमभ्यवाञ्छत् ॥ ५ ॥ सहालिभिः पार्श्वमुपागमि प्राक् ततः शनैस्तेन तयैकया लाक् । क्व मायिना तां च नियुज्य बालावशेषितात्मैकसुहृद्रसाला ॥६॥
सहालिभिरित्यादि-तेन जयकुमारेण सा रसाला बाला प्राक् पूर्व बहुभिःरालिभिः सह पार्श्वमुपागमि ततः पुनः शनैरेकैकमिति बहिष्कृत्य तया कयाचिदेकया साकमुपालब्धा पुनस्तेन मायिना मिषकरणकुशलेन साक् शीघ्नमेव तामेकां च क्व कस्मिश्चिदपि कार्यविशेषे नियुज्यात्मवैकः सुहृद् यस्याः साऽनन्यतमैवावशेषिता ॥ ६ ॥ अथास्य दोषा रजनीव राज्ञ उरीकृता सत्कृतसूक्तिभाग्यः ।। निरुक्तवेशाभरणैः समुक्तः समन्ततः पीततमा भरूक्तैः ॥७॥
अथेत्यादि-यः सत्कृते स्त्रीसत्कारे सूक्ति मञ्जुभाषणतां भजतीति सत्कृतसूक्तिभाग तस्यास्य राज्ञो जयकुमारस्य पक्षे चन्द्रमसोऽपि दोषा भुजयोरोकृता सा बाला भरूणोक्तेः सुवर्णघटितैरथ च मुक्ताभिः सहितः समुक्तः निरुक्तवेशाभरणस्तैस्तैः प्रसिद्धः समन्ततः पीततमा सर्वोत्तमपीतवर्णयुक्ता पीतं कवलीकृतं तमः शार्वरं यया सा रजनीवाभादिति शेषः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org