________________
८-९-१०-११]
सप्तदशः सर्गः
महाशयोऽगस्त्य इवैष वारां निधि स्वसात्कर्तुमगाविहारात् । अजायताक्षीणरसद्धिरेषा योगोऽनयोः स्फूर्तिकरो विशेषात् ॥ ८ ॥
महाशय इत्यादि - वारांनिधि समुद्रं स्वसात्कतु मगस्त्य इव 'वारिनिधि चुलुकीकारागस्त्य' इति जनश्रुतेः । एष महाशयो जयकुमारो वारां रलयोरभेदाद् बालां सुलोचनामेव निधि वाञ्छितदात्रों स्वसात्कतु मगात् प्रयत्नवानभूत् । इहैवावसरे एषा बालापि आराच्छीघ्रमेवाक्षोणानत्यया रसद्वर्यत्र तादृश्यजायत । एव मनयोर्द्वा यो रेष योगः सम्बन्धो विशेषात्स्फूर्तिकरोऽजायत ॥ ८ ॥
७९१
योगस्तयोः कौतुकमित्यथोऽधाद्यस्याणिकायां गणिका अबोधाः । न यद्विचारश्चतुरैरवापि लेभे मुनीनां न मनोऽप्यपापि ॥ ९ ॥
योग इत्यादि - इति पूर्वोक्तप्रकारको योगस्तां राज्ञस्तस्याश्च यथोत्तरमधिकाधिक सौष्ठव सम्पत्तिरेवंरूपः
समग्रभावेनोपभोक्तुमिच्छा प्रयोगस्तद्वयोस्तत्कौतुक
मनिर्वचनीयं विनोदमधाद्दधार । यस्याणिकायां लेशमात्रपरिणतावपि गणिकाः पण्यस्त्रियो याः सुरतस्याधित्र्यो भवन्ति ता अबोधा बोधविहोना बभूवुः । चतुरैः कामन्दकादिभिपि यस्य विचारो नावापि । मुनीनामपापि मनोऽपि यन्न लेभे तत्र तेषामनधि-कारात् ।। ९ ।।
सिंहासने स्थातुमथानुयोग्ये योग्ये नृशार्दूलवरेण भोग्ये । कुरङ्गनेत्राधिकृतापि नेत्रा शशाक सा कम्पत्रती न जेत्रा ॥ १० ॥
सिंहासन इत्यादि- अथ पार्श्वगमनानन्तरं कम्पवती वेपथुनामसात्त्विकभावयुक्ता सा कुरङ्गनेत्रा कुरङ्गस्य नेत्र इव नेत्र यस्याः मृगाक्षी सुलोचना जेत्रा जयनशोलेन नेत्रा नायकेन जयकुमारेण अधिकृतापि स्वायत्तीकृतापि नृशादू लवरेण नरश्र ेष्ठेन जयकुमारेण भोग्ये भोगमर्हति योग्ये स्वाहें अनुयोग्ये अनुयोगः सम्बन्धस्तदहं सिंहासने उपवेष्टु ं न शशाक शक्ता न बभूव लज्जातिशयादिति यावत् ॥ १० ॥
दिशां च यामादरभावकर्तासनेऽपि तस्थौ परिरभ्य भर्त्ता ।
न तामुपाद्रष्टुमहो मनीषामवाप सम्यक् स्मयसारिणी सा ॥११॥
Jain Education International
दिशामित्यादि - आदरभावकर्ता वल्लभां प्रत्यादर भावस्य प्रकटयिता भर्ता वल्लभो जयकुमार यां दिशां च परिरभ्य समाश्रित्य आसनेऽपि तस्थौ समुपविष्ठः स्मयसारिणी स्मयो गर्वोऽद्भुतं वा तस्य सारिणी कुल्या सा सुलोचना तां दिशं सम्यक प्रकारेण उपाद्रष्टुमव लोकयितुमपि मनीषां बुद्धि नावाप न प्राप्ता लज्जानुभाववशादित्यर्थः ॥ ११ ॥
For Private & Personal Use Only
www.jainelibrary.org