________________
सप्तदशः सर्गः
अथोर्जतीन्दी बहुमानवित्तं हतुं प्रहतुं च वियोगिचित्तम् । भयाढ्यतामभ्युपगम्य शिष्टाः सर्वे युवानो रहसि प्रविष्टाः ॥ १ ॥ अथेत्यादि- - अथ रात्रिसमुद्भवानन्तरं । बहुमानमनमनरूपमेव वित्तं धनं na च पुनवयोगिनां स्त्रीविरहिणां चितं प्रहतु वशीकतु मिन्दी चन्द्रमसि ऊर्जति समुदयं गच्छति सति भया प्रभया नूतनवस्त्राभरणां विकृतया शोभयाऽऽद्यतां परिपूर्णतामभ्युपगम्य सर्वे शिष्टाः सभ्यतामुपपन्ना युवानो रहसि स्त्रीप्रसङ्गस्थाने प्रविष्टाः । बहुमानमनल्पपरिमाणं यद्वित्तं तद्धतु वियोगिनामन्यमनस्कानां च चित्तं प्रहतु कस्मिश्चिदिन्दुनामनि प्रवर्तमाने सति भयाढ्यतां भययुक्ततामुपेत्य रहसि गूढस्थानं शिष्टास्तिष्ठन्तीति यावत् ॥ १॥
प्रिया क्रियातोऽपि किलाप्रशस्यं कलङ्किनं जेतुमिवाप्यवश्यं । भास्वान् पवित्राणि रहः कृतानि जयोऽभ्यवाञ्छन्मृदुचेष्टितानि ॥२॥
श्रियेति - श्रिया कालिमोपयुक्तया प्रभया क्रियातोऽपि चौर्याविभयकारिण्या हेतुभूतया कलङ्किनं तत एवाप्रशस्यं जेतुमिव जयो जयनशीलो भास्वान् सूर्यः रहसि कतु योग्यानि पवित्राणि वज्प्रविभवानि जनताहितकरतया मृदूनि च तानि चेष्टितानि केन प्रकारेणेन्दु जयानीति मन्त्रकार्याणि अभ्यवाञ्छत् तथा भास्वान् सुषमावान् जयो नाम राजा जयकुमारः रहः कृतानि स्त्रीसम्पर्काणि प्रसक्तहेतुतया मृदुचेष्टितानि कामशास्त्रतया पवित्राणि तान्यवश्यमभ्यवाञ्छत् ॥२॥
कोकस्य कल्पो विधुजन्मनीति लोकस्य तल्पोक्तगुणप्रणीतिः । जयस्य चानन्दभुवीष्टिमाया नो कस्य वाञ्छा प्रभवेत्कलायाम् ॥३॥
कोस्येत्यादि — विधुजन्मनि चन्द्रोदये कोकस्य लोकस्य चक्रवाकजनस्य यत्र तल्पे शय्या सब्जल्पे स्त्रीप्रसङ्गे उता कथिता गुणस्य प्रणीतिरनुस्मरणरीतिर्येन स कल्पः सकल्पो भवति तथा कर्राहतस्याकस्य सूर्यविदूरस्य लोकस्य कः कल्पो विचारो भवति । तल्पोक्तगुणप्रणीतिरेवाब्रह्मचारिणः सम्भवति 'को ब्रह्मानिलसूर्याग्नीत्यादिना कस्यापि ब्रह्मार्थपरकत्वात् । तथेव जयस्य चानन्दभुवि सुलोचनायामिष्टिमायासमावरणसम्भावना प्रभवदेव । कलायां कं सुखं लातीति कला तस्यां कस्य जनस्य वाञ्छा न भवेत् किन्तु कलायां चन्द्रसत्तायां कस्य सूर्यस्यैव वाञ्छा न प्रभवेत् ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org