________________
७८०
जयोदय -महाकाव्यम्
[ ७२-७३
यामि विधावभ्युदिते पुनरायास्यामि चेति संगदितम् । तदुदन्त्वेनाहं नेदं तत्त्वेन वेद्मि मितम् ॥७२॥
टीका - यामि गच्छामि च पुनवधावभ्युदिते चन्द्रमस उदये सति रात्री किंवा भाग्योदये सति वा पुनरायास्यामि प्रत्यागमिष्यामि इत्येवं प्रकारेण संगदितं तवेतवहमुवन्त्वेन वेद्मि । विधावित्येतत् किलोकारान्तविधुशब्दस्य सप्तम्येकवचनमेव जानामि किन्तु इकारान्तविधिशब्दस्य सप्तम्येकवचनं यद्भवति तस्य न स्मराम्यहं किल । यदुक्तं कुपितेन भर्त्रा तदिदानीमुदन्तत्वेन वार्तारूपेणेव शृणोमि न पुनरिदंत्वेन वास्तवरूपेणापीति यतस्तदुक्तं मितं संक्षिप्योक्तम् ॥७२॥
मञ्जुलधौ गुणसारे किल क्वचित् सुसखि । नापदाधारे । तत्रोपपतौ चेतः पत्यौ नानीदृशि ममेतः ॥७३॥ टीका - हे सुसखि ! मञ्जुश्च लघुश्च तस्मिन् मञ्जुलघौ, गुणानां शृङ्गारादीनां सारो विद्यते यत्र स गुणसारस्तस्मिन् क्वचिदपि आपदानां विपत्तीनामाधारः स्थानं नास्ति यत्र स नापदाधारस्तस्मिन् तत्र तादृशि उपपतौ जारे मम चेतोऽन्तःकरणं प्रवर्तते अनीदृशि य ईवुम् न भवति विरूपो गुणहोंनो विपत्तिकरश्च भवति तस्मिन् पत्यो स्वामिनीतोऽधुना प्रभृति मम मनो नास्ति किल । अथवा मञ्जुला घुसंज्ञा व्याकरणप्रसिद्धा यस्य तस्मिन्, गुण इत्यपि व्याकरणसिद्धा संज्ञा सा सारस्तथ्यांशो यस्य तस्मिन्, तथा क्वचित् तृतीयाया एकवचने नापदस्य नाप्रत्ययस्याधारस्तस्मिन् तत्र तादृश्युपपतौ शब्दे मम चेतः प्रवर्तते न चेतद्विपरीते पत्याविति । श्लेषोऽलंकारः ॥७३॥
अर्थ- मैं अभी जाता हूँ, विधौ अभ्युदिते' -- चन्द्रमाका उदय होने पर आऊँगा, यह जो कहना है उसे मैं एक उदन्त - वार्तामात्र कहना मात्र जानती हूँ तत्त्व - वास्तविक रूप नहीं; क्योंकि उनका वह कहना मित था -- अत्यन्त संक्षिप्त था ।
भावार्थ- संस्कृत में 'विधौ' यह सप्तमी विभक्ति एकवचनका रूप है जो विधु -चन्द्र वाची शब्दसे भी बनता हैं जो विधि-भाग्य वाची शब्दसे भी बनता है । मैं इसे उदन्त - उकारान्त विधु शब्दका रूप समझती हूँ विधि-इकारान्त विधि शब्दका नहीं । मेरे विधि - सद्भाग्यका उदय कहाँ हैं जिसके फलस्वरूप में पुनः उनके दर्शन कर सकू ॥७२॥
अर्थ - हे उत्तमसखि ! जो मञ्जु लघु-मनोहर और लघु शरीर वाला है, गुणसार-शृङ्गारादि गुणोंसे श्रेष्ठ है तथा आपत्तियोंका स्थान नहीं है ऐसे उपपति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org