________________
३२-३३-३४ ]
षोडशः सर्गः
मद्यं पिवन्नत्र कृतावतारं स्वयोषितः फुल्ल सरोजसारम् । पीत्वाssतनं यन्मदमाप गाढं न तेन वा तादृशमेव वाढम् || ३२ ॥ टीका - मद्यं मदिरां पिबन् जनः, अत्र मद्य े कृतोऽवतारो येन तत् फुल्लस्य सरोजस्य कमलस्य सार इव सारो यस्य तत् स्वयोषितो विवाहितायाः स्त्रिया आननं मुखं पीत्वावलोक्य यद् यावृक् गाढं मदमाप प्राप्तवान् तादृशं मदमेष जनस्तेन मद्य नापि कृत्वा न लगाम, वाढमिति सत्यप्रतीतिकमेव ॥३२॥
सोमं समीक्ष्यास्य समत्वहेतुं जेतुं दुरन्तं कुसुमेषु केतुः ।
मन्युपात्तप्रतिमावतारं.
पपावदः सत्वरमप्यसारम् ॥३३॥ टीका - कुसुमेषोः कामस्य केतुः पताका युवतिः, आस्यस्य मुखस्य समत्वं तुल्यभावस्तस्य हेतु कारणं मधुनि मद्य उपात्तो गृहीतः प्रतिमायाः प्रतिबिम्बस्यावतारो येन तं सोमं चन्द्रमसं दुरन्तं स्पर्द्धाकारितया प्रतिशत्र समीक्ष्य ज्ञात्वा तं जेतुमसारं सारहीनमपि मद्य परवशकारित्वादित्यर्थः । अदो मद्यमपि सत्वरमेव शीघ्र पपौ पीतवती ॥ ३३॥
७६७
मद्येन सार्द्धं मम शेमुषोतः स शीतरश्मिश्छविभृन्निपीतः । नो चेविदानीं सुदृशां सदन्तस्तमः स्मयाख्यं च कुतो हृतं तत् ॥३४॥
टीका - मम शेमुषीतो मम विचारेण मद्य ेन सार्धं छविभृत् मद्य प्रतिबिम्बितः स शीतरश्मिश्चन्द्रोऽपि निपीत एव नोचेदन्यथा तु पुनः सुदृशां शोभनचक्षुषां स्त्रीणां स्मयाख्यं गर्वापरनामकं तदन्तस्सत्तमो हवि विद्यमानं तिमिरं च कुतः कस्मात् कारणात् हृतं प्रणष्टं तावत् । अत्र हेतुरलङ्कारः ॥३४॥
अर्थ — कोई एक पुरुष एक ही पात्रमें स्त्रीके साथ मद्य पान कर रहा था । उस मद्य पात्रमें स्त्रीका मुख कमल प्रतिबिम्बित हो रहा था उसे देखकर पुरुष जिस अत्यधिक मद - नशाको प्राप्त हुआ था उस प्रकारके मदको मद्यको पीता हुआ प्राप्त नहीं हुआ था ||३२||
अर्थ -- कामदेवकी पताका स्वरूप कोई युवति चांदनी रातमें मदिरा पान कर रही थी । मदिरा पात्रमें चन्द्रमाका प्रतिबिम्ब पड़ रहा था उसे देख युवतिने विचार किया कि यह चन्द्रमा मेरे मुखकी तुलनाका कारण है:- उसके साथ स्पर्धा करता है अतः मेरा शत्रु है । शत्रुको पी जाना - नष्ट कर देना ही अच्छा है इस विचारसे उस युवतिने सारहीन मदिराको भी शीघ्र पी लिया ||३३||
Jain Education International
अर्थ- हमारे विचारसे तो स्त्रियोंने कान्तिधारी उस चन्द्रमाको मदिराके साथ पी लिया था यदि ऐसा न होता तो इस समय स्त्रियोंके हृदयमें विद्यमान
For Private & Personal Use Only
www.jainelibrary.org