________________
७६५
२७-२८-२९]
षोडशः सर्गः द्वैतानि तानि प्रकृतादरस्य नृशंसतायां सरकं स्मरस्य । शिलीमुखैर्जर्जरितेष्वसिञ्चन् पुनः पुनः स्वास्वनितेषु किञ्च ॥२७॥
टोका-तदेव सरकं मद्य, तानि वैतानि मिथुनानि कर्तृभूतानि नृशंसतायामालेटे प्रकृतः सम्पादित आदरो रुचिर्येन तस्य स्मरस्य रतिपतेः शिलीमुखर्वाणः कृत्वा गर्जरितेषु छिन्नभिन्नेषु स्वस्यास्वनितेषु चित्तेषु पुनः पुनरसिञ्चन् सिञ्चन्ति स्म ॥२७॥ नालं समुत्पीनपयोध्रभावात्सम्पादने दोलनस्य सा वा। विनामने वक्त्रवरस्य मद्यपाने कुतः स्यात्कुशलाद्य सघः ॥२८॥
टोका-सा वा युवतिः समुत्पीनी प्रसन्नोन्नतो पयोधौ कुचौ तयोर्भावात् किल दोवंलनस्य बाह्वोर्ववनसंमुखीकरणे तयैव च वक्त्रवरस्य मुखमण्डलस्य विनामने नम्रकरणेऽलं समर्था नाभूत् ततोऽद्यास्मिन् मधुवारे मद्यस्य पाने मदिरास्वादने सद्यः सहसैव सा कुतः कथं कृत्वा कुशला स्यान्न कुतोऽपोति ॥२८॥
अन्वाननं पानकपात्रमाशासमन्विताया वितरन्विलासात् । हस्तेन शस्तस्तनमण्डलान्तमालिङ्गय सम्यङ्मदमाप कान्तः ॥२९॥
टोका-कान्तः प्रियजनो हृदयेश्वरः आशासमन्वितायाः पातुमभिलाषवत्या आननमनु समीपमन्वाननं पानकपात्रं मधुभतचषकं विलासात् कौतुकपूर्व वितरन् वदानः सन् तस्मिन्नेव काले हस्तेन तस्याः शस्तस्योच्छून मृदुलतमस्पर्शस्य स्तनमण्डलस्यान्तं प्रान्तभागं आलिङ्गय स्पृष्ट्वा स्वयमपि सम्यक् यथेष्टं मदं संहर्षलक्षणमाप। असङ्गतिनामालंकारः॥२९॥
अर्थ-स्त्री-पुरुषोंने मदिरा क्या पी थी मानों उन्होंने क्रूरतामें आदर रखने वाले कामदेवके वाणोंसे छिम्म-भिन्न हुए अपने-अपने हृदयोंमें उस मदिराको पुनः पुनः सींचा था ॥२७॥
अर्थ-कोई एक स्त्री स्तनोंकी स्थूलताके कारण न भुजाओंको मुख मण्डलके पास ले जानेमें और न मुख मण्डलको नीचाकर मद्यपात्रके पास ले जानेमें समर्थ थी तब वह उस समय मद्यपानके अवसर पर मदिरा पान करनेमें सहसा कुशल कैसे हो सकती थी।॥२८॥
अर्थ-कोई एक स्त्री मदिरा पीना चाहता थी पर पीनेमें असमर्थ थी उसका पति कौतुकपूर्वक मदिराका पात्र उसके मुखके पास ले जा रहा था और हाथसे स्तनमण्डलका स्पर्श कर रहा था इस तरह वह मदिरा पानके बिना ही मदहर्षरूप नशाको प्राप्त हो रहा था। असंमति अलंकार है ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org