________________
९-१०-११ ]
निपीयते
सिताश्रितं दुग्धमिवादरेण अयोषितां तक्रमिवात्र नक्रसंकोचतः
षोडशः सर्गः
सङ्गमिनापरेण | श्रीशशिरश्मिचक्रम् ॥ ९ ॥
टीका - सङ्गमिना स्त्रीप्रसङ्गभाजा मनुष्येण श्रीशशिनश्चन्द्रस्य रश्मिचक्र' ज्योत्स्नासमूहः सितया शर्करया श्रितं युक्तं दुग्धमिवादरेण प्रेम्णा निपीयते तदेवात्रापरेण वियोगिना जनेनाथ पुनरुषितं द्विद्विन व्यतीतं तक दधिविकारमिव नक्क्रस्य नासिकायाः संकोचतोऽरचित एव निपीयते । उल्लेखपूर्व कोपमानामालङ्कारः ॥ ९ ॥
कामारिनामाप्यभवल्ललामा
यदोयमूर्धान्दुकशोतधामा । विशां जये प्रोतिपितुः प्रशस्यं साचिव्यमेव प्रचरत्यवश्यम् ॥ १०॥
टीका - कामस्यारिर्हरस्तस्य नामापि ललाम मनोहरमभवज्जातं यत्सम्बन्धी यदीयश्चासौ मूर्धा शिरस्तस्यान्दुकमलङ्करणं शीतधामा चन्द्रमा भवति तस्मात् कामस्यालिमित्र रलयोरभैवात् । यत एष चन्द्रमाः प्रीतिपितुर्भवनस्य विशांजये विग्विजयविषये ऽवश्यमेव प्रशस्यं प्रशंसायोग्यं साचिव्यं सचिवश्वं प्रचरति । 'चन्द्रसाहाय्येन स्वच्छन्द भावेन कामस्य प्रचारो भवतीति ॥ १० ॥
७५७
निशाचरः पञ्चशरोऽस्ति पृष्ठलग्नो ममैकाकिन आ निकृष्टः । त्वत्तो लभे नो यदि तन्त्रसूत्रमष्टाङ्गसिद्धो समतास्तु कुत्र ॥ ११॥
टीका - इत्यतः कोऽपि विरही स्वनायिकाया अनुनयं करोति - पञ्चशरः काम एव निशाचरो रात्रौ संचरणशीलोऽस्ति स निकृष्टः पीडाकरत्वात् ममैकाकिनो निःसहास्य पृष्ठलग्नः सम्भवति । आ इत्याश्चयं । ततो हे दयिते यदि तन्त्रसूत्र मन्त्रप्रतिपादकं शास्त्र यदि नो लभे ऐमि तदा पुनरष्टाङ्गसिद्ध रणिमादिरूपसम्भूतेरथवा काममन्दिराद्यष्टाङ्गसिद्ध: समता कुत्रास्तु ॥ ११ ॥
अर्थ - स्त्री समागमको प्राप्त मनुष्यके द्वारा जो चन्द्रकिरणों का समूह शर्करा मिश्रित दूधके समान आदरसे पिया जाता है— सेवन किया जाता है वही चन्द्रकिरणोंका समूह विरही मनुष्यके द्वारा वासी छांछके समान नाक सिकोड़कर पिया जाता है ॥ ९॥
अर्थ - शंकरका नाम भी आभूषणस्वरूप होता है क्योंकि उनके मस्तकका आभूषणस्वरूप चन्द्रमा भी कामदेवके दिग्विजय के समय प्रशंसनीय सहयोग करता है ॥ १०॥
Jain Education International
अर्थ - आश्चर्य है कि यह अत्यन्त निकृष्ट कामरूपी निशाचर - राक्षस (रात्रिमें प्रभाव दिखानेवाला) मेरे पीछे लगा है अतः हे प्रिये ! यदि तुमसे तन्त्र
For Private & Personal Use Only
www.jainelibrary.org