________________
षोडशः सर्गः
निशीथतीर्थे कृतमज्जनेन जयाय निर्यातमथ स्मरेण । पीयूषपादोज्ज्वलकुम्भदृष्ट्या सुभस्फुरन्मङ्गललाजवृष्ट्या ॥१॥
टीका - अथानन्तरं निशीथोऽर्द्धरात्रिसमयः स एव तीर्थो जलावगाहप्रदेशस्तस्मिन् कृतं मज्जनं येन तेन स्मरेण नाम कामदेवेन पीयूषपावश्चन्द्रमाः स एवोज्ज्वलकुम्भो मङ्गल्यकलशस्तस्य दृष्ट्या दर्शनेन कृत्वा शोभनानि भानि नक्षत्राणि एव स्फुरन्त्यो मङ्गललाजास्तासां सृष्ट्या सर्जनेन च कृत्वा जयाय दिशो विजेतु निर्यातं तावत् । अत्र
रूपकम् ॥ १ ॥
प्रयाणवेलां कुसुमायुधस्याप्यहो स्वयंस्त्री पुरुषेषु न स्यात् । तारुण्यमूर्तिष्वपि कस्य कस्य सहायवान्छा सुतरां प्रेपश्य ॥२॥
टीका - कुसुमायुधस्य कामदेवस्य प्रयाणवेलां दिग्विजयसमयं सुतरां प्रपश्य ( ? ) ज्ञात्वादि पुनस्तारुण्य मूर्तिष्वपि वयः सन्धिस्थितेषु चापि स्त्रीपुरुषेषु तेषु मिथुनेषु कस्य कस्य किल स्त्रीवर्गस्य पुरुषवर्गस्य वा स्वयमेव सहायस्य वाञ्छा न स्यात् किन्तु सर्वस्यापि सहकारिसमागमायाभिलाषाभूत् । अहो आश्चर्ये ॥ २ ॥
विश्वस्य यद् धैर्यधनं व्यलोपि वियोगिनोऽयापि तु योगिनोऽपि । रामाभिधामाकलयन्ति नामाधुना पुनस्ते प्रतिकर्तुकामाः ||३||
टीका - यद् यस्मात्कारणात् विश्वस्य नाम जगतो धैर्यमेव धनं तेन व्यलोपि लुप्तं सर्वस्यापि लोकस्य धैर्यं नष्टप्रायमभूत् तस्माद्वियोगिनो जनाः स्त्रीविरहिता अथापि योगिनः
अर्थ - तदनन्तर अर्धरात्रि रूपी जलाशयके घाटपर जिसने स्नान किया था ऐसा कामदेव चन्द्रमा रूप उज्ज्वल कलशको देखकर तथा सुन्दर नक्षत्र रूपी माङ्गलिक लाईकी वर्षाकर दिग्विजयके लिया निकला ॥ १ ॥
अर्थ - आश्चर्य है कि कामदेवके दिग्विजयका समय अच्छी तरह देखकर तरुणाई की मूर्ति स्वरूप स्त्री पुरुषोंमें किस-किसको सहायताकी इच्छा नहीं हुई थी ? अर्थात् सभी स्त्री पुरुष कामदेवकी सहायताकी इच्छा करने लगे ॥ २ ॥ अर्थ- - यतश्च इस समय समस्त जगत्का धैर्यंरूपो धन लुप्त हो गया था
१. प्रदृश्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org