________________
૭૪૬
जयोदय-महाकाव्यम्
[ ८४-८५
स्वना मञ्जुभाषिणी परेणेतरेण पाणिना हस्तेन भुवि पृथिव्यां किमप्यनिर्वचनीयमाकर्षक यन्त्रं समयेऽवसरे यदुचितं तदुत्पठितं तेन मज्जु यथास्यात्तथा लिलेख ॥८३॥ विभूषणैः स्पष्टमलंकृतं वपुनितम्बिनीनां समलंकृतं पपुः । मृगाण्डखण्डा गुरु चन्दनार्थावशाच्छ्रियः सदोषं धवसंभुवां दृशाम् ॥ ८४ ॥
टीका - नितम्बिनीनां स्त्रीणां वपुः शरीरं नूपुरकेयूरेकुण्डलादिभिरलंकृतं शृङ्गारितं तदेव पुनर्मृगाण्डस्य कस्तूरिकायाः खण्डो लेशोऽगुरुचन्दनं च तयोश्चर्चना विलेपनं तद्वशात् धवस्य पत्युः सम्भुवां प्राणेशसम्बन्धिनीतां दृशां चक्षुषां श्रियः शोभाः दोषया रात्र्या सहित सदोषं यद्वा दोषेण दूषणेन सहितं सदोषं पपुः पीतवत्यः खलु ॥८४॥
इतः कलत्राणि न बालकानि मुखानि येषां तु नवालकानि । धनूंषिकामेन च तानितानि मनांसि यूनां सुरताश्रितानि ॥ ८५ ॥
टीका - इतः कलत्राणि स्त्रियः बालका न भवन्तीत्यबालकानि युवत्योऽथवा न संजाता बालका येषां तान्यपि नवालकानि नवयौवनवत्यः स्त्रिय इत्यर्थः । येषां कलत्राणां मुखानि तु पुनर्नवाल कान्येव यतो नवा नवीनाः कोमलाः श्यामलाः सद्यः शृङ्गारिताश्चालका येषां तानि भवन्ति । कामेन स्मरेण धनूंषि तानितानि (विस्तारितानि) कामः सज्जायुषो बभूव । यूनां तरुणानां मनांसि हृदयानि च सुरतं रतिसुखमाश्रयन्तीति सुरताश्रितानि तथैव सुरतां देवतारूपतां विव्यतामाश्रयन्तीति वा ॥ ८५ ॥
रखे हुई थी तथा कुछ गुनगुनाती हुई दूसरे हाथसे पृथिवीको कुदेर रही थी । उससे ऐसी जान पड़ती थी मानों मन्त्रोच्चारणपूर्वक किसी आकर्षक यन्त्रको ही लिख रही हो || ८३ ॥
अर्थ — स्त्रियों का शरीर यद्यपि नूपुर - केयूर - कुण्डलादि आभूषणोंसे अच्छी तरह अलंकृत-शृङ्गारित था तथापि पति - सम्बन्धी नेत्रोंकी शोभाने उसे कस्तूरी और अगुरु चन्दनकी लेपके कारण सदोष - रात्रिसे सहित अथवा श्यामलता रूप दोषसे समलं - कृतं - मलिन किया हुआ देखा था ॥८४॥
अर्थ-इधर स्त्रियाँ न बालक - पूर्ण युवतियाँ अथवा बालक न होनेसे रति क्रियामें पूर्ण सक्षम थीं उनके मुख भी नवालक - नवीन संभाले हुए केशोंसे सहित थे और इधर कामदेवने धनुष नग्न रक्खे थे अतः तरुण जनोंके मन सुरताश्रित-संभोग सुखके आश्रित हो रहे थे अथवा दिव्यरूपताको प्राप्त हो रहे थे ॥८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org