________________
६४-६५-६६ ]
पञ्चदशः सर्गः
एतत्सदिन्दीवरभासि नाम समापतत्साम्प्रतमिन्दुधाम । पयोधिमध्ये पततोऽनुनत वृत्तं सुरस्रोतस आबिर्भात ॥ ६४ ॥ टीका - एतत्पुरोवत, सदिन्दीवरं समुत्कृष्टनीलोत्पलं तदिव भाः प्रभा यस्य तस्मिन् सदिन्दीवर भासि आकाशे समापतत् यत्पतितं तद् इन्दुधाम चन्द्रमसः प्रकाशो नाम पयोधिमध्ये समुद्रस्यान्तः पततः सुरस्रोतसो गङ्गाप्रवाहस्य वृत्तमाविर्भात धारयति तावत्खलु ॥६४॥
७३७
शशी विहायः सरसि प्रसन्नो हंसायते मेचकंशेवलाशी । श्रीचन्द्रिकासारिणि वारिणीह तारातती राजति बुदुदाशीः ।। ६५॥
टीका - विहायः सरसि आकाशसरोवरे प्रसन्नः शशी चन्द्रमा मेचकं तम एव शैवलमश्नातीति सः हंसायते हंस इव लक्ष्यते । श्रीचन्द्रिकासारिणि कौमुद्याः सार इव सारा यस्मिंस्तस्मिन् वारिणि जलप्रवाहे इहाधाररूपे ताराणां नक्षत्राणां ततिः पङ्क्तिः सा बुदबुदानां जलोत्थफोलकानामाशिर्वचनमिवाशीर्यस्याः सा विराजति खलु ॥ ६५ ॥ रामोऽपि राजा हृतवानिदानों तारावराजोवनकृद्विधानी । निशाचरं सन्तमसं विशाले: सलक्षणोऽसौ करवालजालेः ॥६६॥
टीका- राजा चन्द्रमा भूपतिश्च रामो रमणीयो दशरथपुत्रो वा ताराया वरः सुग्रीवो यद्वा ताराणां नक्षत्राणां वरं श्रेष्ठमाजीवनं करोत्येवंविधं विधानं यस्यास्ति सः, इदानीं साम्प्रतं विशालः सर्वतो गतिशीलः करवालजालेर सिवरस्य व्यापाररथवा कराणां
कौमुदी और चान्द्री दोनों ही चन्द्रमाकी सिद्ध नहीं होतीं फिर लोग इसे महत्त्व क्यों देते हैं ॥६३॥
अर्थ - समीचीन नील कमलकी प्रभा वाले अर्थात् नीले आकाशमें जो यह चन्द्रमाका प्रकाश पड़ रहा है वह समुद्रक बीच पड़ते हुए आकाश गङ्गाके सादृश्यको धारण कर रहा है ||६४||
अर्थ – आकाशरूपी सरोवरमें निर्मल चन्द्रमा, अन्धकार रूप शेवालको खाने वाले हंसके समान आचरण करता है और चन्द्रिकाके सार रूप जलमें ताराओंकी पंक्ति बबूले समान सुशोभित हो रही है || ६५ ॥
अर्थ-- इस समय राम - रमणीय, तारावराजीवनकृद्विधानी -नक्षत्रोंके श्रेष्ठ जीवनको करनेवाले विधानसे सहित एवं सलक्षण - चिह्न युक्त इस राजा
१. 'मेचक: श्यामले बहिचन्द्रे ध्वानोऽथ मेचकम्' इति विश्व० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org