________________
७२४ जयोदय-महाकाव्यम्
[ ३८-३९ नारी निशा चावनिशादरस्य नारीह सा रीतिकरी स्मरस्य । लात्वा रति संवरतीव लोके पतत्यतः सम्प्रति नाबलोऽके ॥३८॥
टीका-असौ निशा रात्रिः कारी केः सूर्योऽरिर्वेरी यस्याः सा कारी श्यामला च वर्तते । अवनौ पृथिव्यां मच्छं शं तस्मिन्नादरो यस्य सोऽवनिशादर स्तस्य । यद्वा, न निशावनिशा तस्या दरपरिणामो भोतिभावो यस्य सोऽवनि शादरस्तस्य घने तृष्णींशोलस्य रात्रौ समुद्यमवतः स्मरस्य कामस्येहास्मिन्नवसरे सा नारी स्त्री जातिः न विद्यते अरिर्यस्या एवंभूता निरङ्कुशा भवतीत्यर्थाः । सा स्मरस्य रीतिकरी भवति । यद्वा सरस्य हसनं हसः प्रसत्तिस्तस्यारि स्तस्येति करोतीति स्त्री हसारीतिकरी। सैव स्मरस्य करी हस्ती स रति कामदेव स्त्रों प्रातिप्रसू (?) लात्वा लोकेऽस्मिन् संसारे सञ्चरतीव इतस्ततः पर्यटतीवेति । अतएव सम्प्रति अधुना पुन रबलो जनः स्त्रीविहीनो मनुष्यः सोऽके संकटे पतति निःस्त्रीको दुःखीभवतीति ॥३८॥ अकाय शंका सहितः सकायः पन्थाः सतां व्योमभवद्विहायः । कमद्वती नाम सुमद्वनोति कृत्वात्र जाता क्षणवा प्रणोतिः ॥३९॥ ___टीका-स कश्चिदपि कायः-कः सूर्य एवाय आजीवनं यस्य स कायः कोवाकमल. प्रभृतिर्जनः स तु अकस्य दुःखस्यायः सम्प्राप्तिभावस्तस्यशंका सहितो भवति । यद्वा कायेन सहितः सकायः शरीरधारी जनः स चाकायस्य अनङ्गस्य कामस्य शंका सहितः कामातुरो भवतीति । असौ सता नक्षत्राणां पन्था मार्गो य आकाशः वीनां पक्षिणाम् ओम स्वीकरणं यस्य व्योम स एवाधुना विहायोऽभवत् । वीनां पक्षिणां हायकरणत्वात् । यद्वा सतां पन्था
___ अर्थ-एक तो अँधेरी रात है, फिर स्त्री जाति पृथिवी सम्बन्धी सुखमें आदर रखनेवाले कामदेवकी आज्ञाकारिणी है, यही नहीं कामदेव अपनी स्त्री रतिको साथ ले लोकमें सर्वत्र भ्रमण कर रहा है अतः स्त्री रहित मनुष्य इस समय संकटमें पड़ रहा है ॥३८॥ ___अर्थ-इस समय काय--क-सूर्यके आश्रित आय-आजीविकावाले चकवा तथा ककल आदि पदार्थ अकायशंकासहित-दुःख प्राप्तिकी शंकासे सहित हो रहे हैं-सूर्यके अभावमें दुःखकी शंका कर रहे हैं अथवा सकाय-शरीर धारी मनुष्य अकाय-कामकी शंकासे सहित हो रहे हैं अर्थात् कामातुर हो रहे हैं । नक्षत्रोंका मार्ग तथा व्योम्पक्षियोंको स्वीकार करनेवाला आकाश विहायअन्धकारके कारण विहाय-पक्षियोंके लिये कष्टकारक हो रहा है। अथवा नक्षत्रोंका मार्ग आकाश व्योम. कहलाता हुआ भवत्-नक्षत्रोंसे युक्त विहायत् १. 'को ब्रह्मानिल सूर्याग्नियमात्मद्योति बहिषु' विश्व० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org