________________
पञ्चदशः सर्गः प्राणेशसत्सङ्गमलालसानां कटाक्षवाणेरधुनाङ्गनानाम् । हतः किलारादरविन्दवेषमुपैति पूषारुणिमानमेषः ॥ १ ॥ टोका-अधुना दिनात्ययसमये एष पूषा सूर्य आराधनायासेनेव, अरविन्दस्य रक्तकमलस्य वेष इव वेषो यस्य तमरुणिमानं लोहितभावमुपैति प्राप्नोति आरक्तवर्णोऽवलोक्यते यतः किलासौ प्राणेशस्य वरस्य सत्सङ्गमे संप्रयोगे लालसा वाञ्छा यासा तासामङ्गनानां स्त्रीणां कदा त्वमस्तं गच्छर्यदा वयं रात्रिभावात् प्रियेण सहानुतिष्ठाम इति मुहुरवलोकनात् कटाक्षा एव बाणास्तैः कृत्वा हतो जर्जरीकृतः ॥१॥
यथोक्येऽहयस्तमयेऽपि रक्तः श्रीमान् विवस्वान्विभकभक्तः । विपत्सु सम्पत्स्वपि तुल्यतेवमहो तटस्था महतां सदैव ॥२॥
टीका-श्रीमान् जगतां प्रशस्तत्वात् विभवस्य सकलार्थकारितायाः। किञ्च वीनां पक्षिणां भवः सत्ता तस्यैकः प्रसिद्धो भक्तः प्रेमी दिन एव पक्षिणां सञ्चारात् । स एष सूर्यो यथोबये समुद्भवकालेऽह्नि दिने रक्तो लोहितवर्ण आसीत्तथास्तमये निपतनसमयेऽपि रक्त एव । एवं कृत्वा महतामक्षुद्र हृदयानां विपत्सु सम्पत्स्वपि किंवा संकटेषु किंवा महोदयेषु सदैव नित्यं तुल्यता समानभावेन प्रवृत्तिः सा तटस्था भवति न सम्पस्वनुरज्यन्ते न च विपरसूद्विग्नाश्च भवन्ति । अहो महदाश्चर्यस्थानमेतत् ॥२॥
अर्थ-तदनन्तर दिन समाप्तिके समय यह सूर्य अनायास ही लालकमलके समान लालिमा को प्राप्त हो गया जिससे ऐसा जान पड़ता था मानो प्राणवल्लभके समागममें इच्छा रखने वाली स्त्रियोंके कटाक्षरूपी बाणोंसे घायल होकर ही लालिमा को प्राप्त हुआ था ॥ १ ॥ ___ अर्थ-श्रीमान् तथा ऐश्वर्यका एक भक्त अथवा पक्षियोंके सद्भाव का प्रमुख भक्त सूर्य जिस प्रकार उदय कालमें लाल होता है उसी प्रकार अस्त कालमें भी लाल रहता है । बड़ा आश्चर्य है कि महापुरुषों की प्रवृत्ति संपत्ति और विपत्तिमें सदा एक सदृश-तटस्थ होती है । तात्पर्य यह है कि महापुरुष न सम्पत्तिमें अनुरक्त होते हैं और न विपत्ति में उद्विग्न ॥ २॥
१. उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org