________________
७६
जयोदय-महाकाव्यम्
[ ३६-३७
पुनस्तस बिष्टदेवतं स्वेष्टदेवतां स्मरन् कार्यसिद्धि कर्मसाफल्यमुपयातु प्राप्नोतु किन्श्वसो सदाचरणतः सदाचारादुद्बहिः व्रजन् सिद्धि नोपयातु ॥ ३५ ॥
यद्वदेव तपनातपोऽकृच्छ्रीजिनानुशय इष्टसिद्धिभृत् । नूनमप्रकटरूपतो मतंस्तत्त्रिसायमनुजायतामतः || ३६ ||
यद्वदेवेति । यद्वद् यथा तपनस्य आतपस्तपनातपः सूर्यधर्मः अनं करोतीत्यक्ष कृद् धान्यपाचको भवति, तद्वन्नूनं श्रीजिनस्य अनुशयश्चिन्तनमिष्टसिद्धिकारकं जायते । अप्रकटरूपेण चिन्तनमपि मनोरथसाधकं मन्यते, किं पुनः प्रकटरूपेणेत्यर्थः । तत्तचिन्तनमतस्त्रिसायं तिसृषु सन्ध्यासु अनुजायतामनुष्ठीयतां भक्तजनेरिति शेषः ॥ ३६ ॥ इष्टसिद्धिमभिवाञ्छतोऽर्हतां नामतोऽपि भुवि विघ्न निघ्नता । व्येति काककलितां किलापदं तीरमित्यरमितीरयन् पदम् ॥ ३७ ॥
इष्टसिद्धिमिति । भुवि लोके, इष्टसिद्धि मनोरथसाफल्यमभिवाञ्छतोऽभिलषतः पुरुषस्य, अज्ञानापि विघ्नानां निघ्नता वशीभावाऽभाव इत्यर्थः, जायत इति शेषः । यथा, पुरुषः काकेन कलिता तो वायसजनितां बाधां तीरमिति पदमरं शीघ्रमीरयन् पुनः पुनः कथयन् व्येति नाशयति ॥ ३७ ॥
अपने-अपने इष्टदेवका स्मरण करें तो निश्चय हो अपने अभीष्ट धर्मकी सिद्धि प्राप्त करेगा । किन्तु यदि वह सदाचारका पालन न करे तो कभी सिद्धि न पायेगा ।। ३५ ।।
अन्वय : यद्वत् एव तपनातपः अन्नकृत् भवति ( तद्वत् ) नूनम् अप्रकटरूपतः श्रीजिनानुशयः इष्टसिद्धिकृत् इति मतम् । अतः तत् त्रिसायं अनुजायताम् ।
अर्थ : जैसे सूर्यका आतप किसानके अन्नको पकाता है, वैसे ही अप्रकट रूपसे भी जिन भगवान्का चिन्तन अवश्य ही इष्टसिद्धि करनेवाला माना गया है । इसलिए भक्तजन तीनों संध्याओं में जिन भगवान्का स्मरण करते रहें ||३६||
अन्वय : भुवि इष्टसिद्धिम् अभिवाञ्छतः अर्हतां नामतः अपि विघ्ननिघ्नता भवति । यथा किल तीरम् इति पदम् अरम् अपि ईरयन् काककलिताम् आपदं व्येति ।
अर्थ : पृथ्वीतलपर इष्टसिद्धि चाहनेवाले पुरुषके लिए अरहंत भगवान् - के नामोच्चारणसे भी आनेवाली सारी विघ्न-बाधाओंका अभाव यानी नाश हो जाता है। जैसे कोएको बाधासे बचनेके लिए 'तीर-तीर' बार-बार कहनेपर कोआ उड जाया करता है ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org