________________
जयोदय महाकाव्यम्
[२२-२४ कर्मनिहरणकारणोधमः पौरुषोऽर्थ इति कथ्यतेऽन्तिमः । सत्सु तत्स्वकृतमात्रसातनः श्रावकेषु खलु पापहापनम् ।। २२ ॥
कर्मेति । अन्तिमश्चरमः पुरुषस्यायं पौरुषः पुरुषसम्बन्धी, अर्थः पुरुषार्थो मोक्ष इत्यर्थः । स कर्मणां निहरणं कर्मनिहरणं तस्य कारणरूपो य उद्यमः सकलकर्मक्षयहेतु. भूतोद्योग एवं वर्तत इत्यर्थः । सत्सु त्यागितपस्विषु तु तत्स्वकृतमात्रं सातयतीति स्वकृतमात्रसातनः स्वविहितकर्ममात्रनाशकोऽस्ति श्रावकेषु गृहस्थेषु पापस्य हापनं पापनाशकमेव ॥ २२ ॥ प्रातरस्तु समये विशेषतः स्वस्थिताक्षमनसः पुनः सतः । देवपूजनमनर्थसूदनं प्रायशो मुखमिवाप्यते दिनम् ॥ २३ ॥
प्रातरिति । स्वस्थिताक्षमनसः स्वस्मिन् स्थितानि अक्षाणि मनश्च यस्य सस्तस्य, आत्मवशीभूतेन्द्रिचित्तस्य सतः शोभनगृहिणः पुनः प्रातःसमये विशेषतः प्रकृष्टरूपेण, अनर्थ सूदयतीत्यनर्थसूदनम् अनिष्टनाशनं देवानां पूजनं देवपूजनम् इष्टदेवार्चनमस्तु भवतु । यतः प्रायशो बाहुल्येन मुखमिव प्रारम्भ इव दिनमहे आप्यते प्राप्यते । प्रातःसमये यादृशं शुभाशुभं कर्म विधीयते तादृशमेव दिनं व्यत्येतीति प्रसिद्धिः ॥ २३ ॥ मङ्गलं तु परमेष्ठिपूर्जितं दिव्यदेहिषु नियोगपूजितम् । पार्थिवेषु पृथुताश्रितं पदं प्रत्ययं चरति देव इत्यदः ॥ २४ ॥
अन्वय : अन्तिमः पौरुषः अर्थः कर्मनिर्हरणकारणोद्यमः इति कथ्यते । सत्स तत स्वकृतमात्रातनः । किन्तु श्रावकेषु पापहापनं खलु ।।
अर्थ : पुरुषार्थों में अन्तिम मोक्ष-पुरुषार्थ कर्मोके अभावका कारणरूप उद्यम है। वह त्यागी तपस्त्रियों में तो अपने किये विहित कर्ममात्रका नाशक है। किन्तु श्रावकोंके लिए निश्चय हो वह पापोंका नाशक है ॥ २२ ॥
अन्वय : स्वस्थिताक्षमनसः सतः पुनः प्रातःसमये विशेषतः देवपूजनम् अस्तु, तत् अनर्थसूदनं भवति । प्रायशः मुखम् इव दिनम् आप्यते ।
अर्थ : प्रातःकालके समय गृहस्थकी मन और इन्द्रियां प्रसन्न रहती हैं, अतः उस समय प्रधानतया सब अनर्थोंका नाश करनेवाला देवपूजन करना चाहिए, ताकि सारा दिन प्रसन्नतासे बीते । प्रसिद्ध है कि दिनके प्रारंभमें जैसा शुभ या अशुभ कर्म किया जाता है, वैसा ही सारा दिन बीतता है ।। २३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org