________________
६६
जयोदय-महाकाव्यम्
[ १३-१५
तत्त्वस्य व तत्र निरताः धर्मज्ञानमार्गतत्पराः सन्ति । हि यतः, सुचित्प्रस्तरेषु शोभनपाषाणेषु क्वचित् मणयोऽपि भवन्ति ॥ १२ ॥
कर्म यत्तुपमेति सृष्टिकः शोधयन्ननुकरोति दृष्टिकः ।
बालकः परकरोपलेखक: संलिखत्यथ कुमार एककः ।। १३ । कर्मेति । सृष्टिक: पाक्षिकः धावको यत् सतुषं कर्म एति सदोषं कर्म करोति । दृष्टिको दार्शनिकस्तदेव कर्म शोधयन् निर्दोषं कुर्वन् अनुकरोति । यथा बालकः शिशुः परस्य करेण उपलिखतीति परकरोपलेखकोऽपरपुरुषस्य साहाय्येन लिखति । अथ कुमार एककः केवलो लिखति ।। १३ ।।
स्वीकृते परमसारवत्तया जायते पुनरसारता स्यात् । तक्रतो हि नवनीतमाप्यतेऽतः पुनर्वृतकृते विधाप्यते ॥ १४ ॥ स्वीकृत इति । पूर्वं परमश्चासौ सारः परमसारः सोऽस्यास्तीति परमसारवान्, तस्य भावस्तया, अतिस्थिरांशवत्तया स्वीकृतेऽङ्गीकृते सति तत्र पुनः असारता निस्सारता जायते । यथा यदा तऋतो नवनीतमाध्यते प्राप्यते, तदेव घृतकृते सर्पिविधानार्थं पुनः विधाप्यते विलाप्यते ॥ १४ ॥
नैव लोकविपरीतमञ्चितुं शुद्धमप्यनुमतिर्गृही शितुः ।
नाम सत्यमिह वातामिति मङ्गले न पठितुं समर्हति ॥ १५ ॥
जो संसार, शरीर और भोगोंसे निःस्पृह होते हैं । कारण वे तत्त्वमार्ग में निरत रहते हैं। ठीक ही है, कहीं-कहीं अच्छे पाषाण में भी मूल्यवान् रत्न मिल जाया करते हैं ।। १२ ।।
अन्वय : सृष्टिकः यत् कर्म सतुषम् एति । ननु दृष्टिकः तदेव शोधयन् करोति । अथ बालकः परकरोपलेखकः भवति । किन्तु कुमार: एकक : संलिखति ।
अर्थ : पाक्षिक श्रावकके कार्य सदोष होते हैं, किन्तु दार्शनिक उन्हीं को निर्दोष रीति से किया करता है । जैसे बालक दूसरोंके हाथ के सहारे लिखता है, किन्तु कुमार अकेला ही लिखा करता है ॥ १३ ॥
अन्वय : पूर्वं परमसारवत्तया स्वीकृते पुनः रयात् असारता जायते । हितक्रतः नवनीतम् आप्यते, अतः पुनः तदेव घृतकृते विधाप्यते ।
अर्थ : प्रारंभ में परमसारवान् होनेसे जो बात स्वीकार की जाती है वही कुछ समय बाद असार हो जाती है । जैसे छाछसे जो मक्खन निकाला जाता है, वही बादमें शीघ्र तपाकर घी बना लिया जाता है ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org