________________
६४
[ ८-१०
८ ॥
सन्निवेद्य च कुलङ्करैः कुलान्येतदाचरणमिङ्गितं बलात् । आचरेत् स्वकुलसक्तिमानियद्वर्त्म सद्भिरुपतिष्ठितं हि यत् ॥ कुलङ्करैरिति । कुलानि कुर्वन्तीति कुलङ्कराः वंशनिर्मातारस्तः कुलानि सनिवेद्य निर्माय बलात् अवश्यकर्तव्यतानिमित्तात् एतदाचरणमिङ्गितं सङ्केतितम् । अतः स्वकुले सक्तिरस्यास्तीति स्वकुलसक्तिमान् स्वकुलमर्यादासक्तः पुमान् इयत् आचरेत् अवश्यमाचरेदित्यर्थः । हि यस्मात्कारणात् यत् सद्भिः सज्जनेरुपतिष्ठितम् उपस्थापितं तदेव वर्त्म सदाचारमार्गोऽस्ति ॥ ८ ॥
जयोदय-महाकाव्यम्
इङ्गितं दुरभिमानिसन्ततेस्तत्कदाचरणमेव मन्यते ।
किन्नु काकगतमप्युपाश्रयत्यत्र हंसवदकुञ्चिताश्रयः ॥ ९ ॥ इङ्गितमिति । दुरभिमानिनी चासौ सन्ततिस्तस्याः दुष्टाहङ्कारसन्तानस्य इङ्गितं चेष्टेव यत् तदेव कदाचरणं कुत्सितमाचरणं मन्यते, जर्नरिति शेषः । किमत्र लोके हंसेन तुल्यो हंसवद्, न कुवितोऽकुचित आशयो यस्य स मरालतुल्योदार भावनायुक्तः पुरुषः काकस्य गतं वायसगमनमपि उपाश्रयति, न कदापीत्यर्थः ॥ ९ ॥
आत्रिकस्थितिमती रमारती मुक्तिरुत्तरसुखात्मिका धृतिः । काकचक्षुरिव याति तद्वयं पौरुषं भवति तच्चतुष्टयम् ॥१०॥
वह नीति पैतृक अंगुलिसे युक्त ही है । बालक जैसे चलता ही है, वैसे इस संसार में कौन अनुगमन नहीं करेगा ? ॥ ७ ॥
अन्वय : च कुलङ्करैः च कुलानि सन्निवेद्य बलात् एतत् आचरणम् इङ्गितम् । अतः स्वकुलसक्तिमान् इयत् आचरेत् । हि सद्भिः यत् उपतिष्ठितं तत् एव वत्मं ।
अर्थ : वंश-निर्माताओंने कुलोंका निर्माण कर उन कुलोंके लिए यह अवश्य कर्तव्य निर्दिष्ट किया है । अतः अपने कुलकी मर्यादामें स्थित मनुष्य उसका अवश्य आचरण करे । उसीका नाम सदाचार है ॥ ८ ॥
अन्वय : दुरभिमानिसन्ततेः यत् इङ्गितं तदेव कदाचरणं मन्यते । अत्र यः हंसवत् अकुञ्चिताशयः काकगतम् अपि किं नु उपाश्रयति ।
अर्थ : दुरभिमानियोंकी चेष्टाको ही लोग दुराचरण कहते हैं, क्योंकि क्या हंसकी तरह कोई उदारचेता कभी कौए की चाल भी ग्रहण करता है ? अर्थात् कभी नहीं ॥ ९ ॥
अन्वय : रमा रती आत्रिकस्थितिमती, मुक्तिः उत्तरसुखात्मिका । किन्तु धृतिः काकचक्षुः इव तद्द्वयं याति । एवं तत् चतुष्टयं पौरुषं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org