________________
जयोदय-महाकाव्यम्
[ ३-५ आत्मने हितमुशन्ति निश्चयं व्यावहारिकमुताहितं नयम् । विद्धि तं पुनरदः पुरस्सरं धान्यमस्ति न विना तृणोत्करम् ॥ ३॥
आत्मन इति । यद्यपि महात्मानो निश्चयनयमात्मने हितं शुभकरमुशन्ति, वाञ्छन्ति, उत ध्यावहारिकनयमात्मनेऽहितमुशन्ति; तथापि हे शिष्य, स निश्चयनयो व्यवहारमयपूर्वक एव भवतीति विद्धि जानीहि । यतो हि तृणानामुत्करः पलालसमहस्तं विना धान्यमन्नं नोद्भवति यथा, तथैव व्यवहारनयपूर्वक एव निश्चयनय इत्यर्थः ।। ३ ।।
नीतिरैहिकसुखाप्तये नृणामार्परीतिरुत कर्मणे घृणा । लोकनिर्गतसुखा विनाऽगदं दद्रुखर्जन उपैति को मुदम् ॥ ४ ॥
नीतिरिति । नृणां नराणां नीतिरैहिकसुखानामवाप्तिस्तस्य सांसारिकसुखप्राप्तये भवति, उत अथवा आर्षा चासो रोतिर्वेदिकनियमः कर्मणे घृणामुपेक्षामादिशति । परन्तु लौकिकसुख प्राप्तिमुपेक्षते । वस्तुतः कर्माचरणमन्तरा सुखवाप्तिदुर्लभेति अर्थान्तरन्यासेनाह-यथा अगदमौषधं विना दद्रोः खर्जनं दद्रूकण्डूयन तस्मिन् कः पुरुषो मुदं हर्षमपति, न कोऽपीत्यर्थः । एवमेव कर्मान्तरालौकिकसुखप्राप्तिरपि लोकानिर्गतं सुखं यस्याः सा सुखोत्पादनरहिताऽस्तीति भावः ॥ ४ ॥
तत्त्वभद् व्यवहृतिश्च शर्मणे पूतिभेदनमिवाग्रचर्मणे । तवदूषरटके किलाफले का प्रसक्तिरुदिता निरगेले ॥५॥
अन्वय : ( महात्मानः) निश्चयनयं आत्मने हितम् उत व्यावहारिकं नयम् अहितम् उशन्ति । पुनः तम् अदः पुरस्सरं विद्धि । यतः तृणोत्करं विना धान्यं नास्ति ।
अर्थ : यद्यपि महात्मा लोग निश्चय-नयको अपना हितकर अथवा व्यवहारनयको अहितकर कहते हैं। फिर भी हे शिष्य ! यह समझ लें कि निश्चय-नय व्यवहार-नयपूर्वक ही होता है, क्योंकि धान्य भूसेके बिना नहीं होता ।। ३ ।।
अन्वय : नृणाम् ऐहिकसुखाप्तये नीतिः उत आपरीतिः कर्मणे घृणाम् ( आदिशति, या ) लोकनिर्गतसुखा । यतः अगदं विना दलुखर्जने कः मुदम् उपैति । ____ अर्थ : मनुष्योंके ऐहलौकिक सुखकी प्राप्तिके लिए नीति होती है, अथवा आर्षनोति या वैदिक नियम कर्मों के लिए उपेक्षा करनेका आदेश देते हैं जो लौकिक सुखप्राप्तिकी परवाह नहीं करते । भला औषधिके बिना खुजलाने मात्रसे दादका रोग कैसे दूर हो सकता है ? अर्थात् कभी नहीं ॥ ४ ॥
अन्वय : च तत्त्वभृद् व्यवहृतिः या अग्रचर्मणे पूतिभेदनम् इव शर्मणे भवति । निरगेले अफले तावत् ऊपरटके प्रसक्तिः का किल उदिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org