SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [११३ जन्मश्रीगुणसाधनं स्वयमवन् संदुःखदैन्याद् बहियत्नेनैष विधुप्रसिद्धयशसे पापापकृत् सत्त्वपः । मञ्जूपासकसङ्गतं नियमनं शास्ति स्म पृथ्वीभते, तेजः पुञ्जमयो यथागममथा हिंसाधिपः श्रीमते ॥११३।। जन्मेति । एष ऋषिवरः पापापकृत् दुरितापहारकसत्त्वपः सत्वगुणरक्षकः, तेजस आत्मबलस्य पुञ्जमयोऽहिसायाः प्राणिरक्षणलक्षणाया अधिपतिः, दुःखतो दन्याच्च बहिर्गतं दूरवति श्रीगुणानां क्षमासन्तोषादीनां साधनमुपार्जनं यत्र तत् स्वयमात्मनो जन्म मनुष्यपर्यायात्मकमवन धारयन् सन् श्रीमते विषुवत्प्रसिद्धं यशो यस्य तस्मै चन्द्रवनिमलयशोधरस्य पृथ्वीभृते तस्मै जयकुमाराय, उपासकेभ्यः पावकेभ्यो मध्यवृत्तिषारकेभ्यः सङ्गतं यदुचितं तन्मञ्जु मनोहरं चित्तग्राहि नियमनमाचरणप्रकरणमागममाम्नायशास्त्रमाप्तोपज्ञमनतिक्रम्य यद्भवति तद् यथागमं यथा स्यात् तथा शास्ति स्म यत्नेन सावधानतया। न कदाचिदागमविरुद्ध वचनं मुखानिर्गच्छेविति विचारपूर्वकमित्यर्थः । उपर्युक्तच्छन्दश्चक्रवन्धे लिखित्वा तस्य प्रत्यप्राक्षरः षष्ठाक्षरंश्च कृत्वा 'जयमहीपतेः साघुसदुपास्तीति सर्गनिर्देशः कृतो भवति ॥ ११३ ॥ श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं, वाणीभूषणणिनं घृतवरी देवी च यं धीचयम् । तेनास्मिन्नुदिते जयोदयनय-प्रोद्धारसाराश्रितो, नानानव्य-निवेदनातिशयवान् सर्गोऽयमादिर्गत: ॥ १ ॥ अन्वय : अथ एषः पापापकृत् दुरितापहारकः सत्त्वपः तेजःपुञ्जमयः अहिंसाधिपः दुःखदैन्यात् बहिः श्रीगुणसाधनं स्वयं जन्म अवन् सन् श्रीमते विधुवत्प्रसिद्धयशसे पृथ्वीभृते उपासकसङ्गतं मञ्ज नियमनं यथागमं शास्ति स्म । अर्थ : इसके पश्चात् पापापहारी, सत्त्वगुणके रक्षक, आत्मबलसे सम्पन्न और अहिंसाके अधिपति उन मुनिराजने दुःख-दैन्यसे शून्य तथा धन एवं क्षमासन्तोषादि गुणोंसे सम्पन्न मनुष्यजन्म धारण करनेवाले, चन्द्रवत् निर्मल-यश महाराज जयकुमारके लिए मध्यवृत्तिधारक श्रावक जनोंके लिए उचित और मनोरम आचार-प्रकरणका आगमशास्त्रानुसार उपदेश दिया ।। ११३ ॥ विशेष : इस वृत्तको छह आरोंवाले चक्रमें लिखकर उसके प्रत्येक आगेके अक्षर और फिर प्रत्येक छठे अक्षरसे 'जयमहीपतेः साधु-सदुपास्ति' ऐसा पद निकल आता है जो इस सर्ग में वर्णित विषयका निर्देशक है ।। ११३ ।। प्रथम सर्ग समाप्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy