________________
११०-११२]
प्रथमः सर्गः ग्रन्थारम्भमये गेहे के लोकं हे महेङ्गित ।
शान्तिर्याति तथाप्येनं विवेकस्य कलाऽतति ।। ११० ॥ ग्रन्थारम्भेति । हे महेङ्गित प्रशस्तचेष्ट, ग्रन्थारम्भसमये परिग्रहव्यापाररूपेऽस्मिन् गेहे शान्तिनिराकुलता कं. लोकं याति, न कमपि प्राप्नोतीत्यर्थः । तथापि पुनरेनं त्वच्चरणनिकटवतिनं जनं विवेकस्य विचारस्य कलालेशः प्राप्नोति ॥ ११० ॥
समुत्सवकरस्याऽस्याऽभ्युदयेन रवेरिव । श्रीमतो मुनिनाथस्याऽप्युद्भिन्ना मुखमुद्रणा ॥१११।। भपालबाल किन्नो ते मृदुपल्लवशालिनः। कोन्तालसन्निधानस्य फलतात् सुमनस्कता ॥ ११२ ॥
(युग्मम् ) समुत्सवेति । रवेः सूर्यस्येव समुत्सवकरस्य समुत् सहर्ष सवं स्तवनं करोति तस्य, अथवा सम्यगुत्सबकारकस्य । पक्षे मुत्सहित स्तवः संधानं येषामेतादृशाः कराः किरणा यस्य तस्य । अस्य राज्ञोऽभ्युदयेन पुण्यपरिपाकेन, पक्षे उद्गमनेन । श्रीमतः कमलरूपस्य श्रिया सहितस्य मुनिनाथस्यापि मुखमुद्रणा मौनिता, पक्षे कुड्मलरूपता च उद्भिन्ना निरस्ता अभूत् । यथा हे भूपालबाल ! मृदुपल्लवशालिन: मृदुभिः कोमल: पल्लवैः शब्दांशः शालिनो मधुरभाषिणः, पक्षे सुकोमलपत्रयुक्तस्य । कान्तया वनितया लसत् शोभमानं निधानं धनाधिकरणं गृहं वा यस्य तस्य, पक्षे रलयोरभेदात् कान्तारं वनमेव सन्निधानं यस्य तस्य । वृक्षस्थे बने सुमनस्कता पवित्रचित्तता, पक्षे उत्तमकुसुमयुक्तता। फलतात सफला भवत्वित्यर्थः ॥ १११-१२ ॥
अन्वय : महेङ्गित ! ग्रन्थारम्भमये गेहे शान्तिः कं लोकं याति ? तथापि एतं विवेकस्य कला अतति ।
अर्थ : हे प्रशस्त चेष्टावाले मुनिराज ! परिग्रह-व्यापाररूप इस घरमें किसे शान्ति प्राप्त हई है ? अर्थात किसीको भी नहीं। फिर भी आपके चरणोंके निकटवर्ती इस जन (जयकुमार) को विवेकका लेश तो प्राप्त हो ही जाता है ।।११०।।
अन्वय : रवेरिव समुत्सवकरस्य अस्य अभ्यदयेन श्रीमत: मुनिनाथस्य मखमद्रणा उद्भिन्ना। हे भूपालबाल ! मृदुपल्लवशालिनः कान्तालसन्निधानस्य ते सुमनस्कता कि नो फलतात् । ___अर्थ : सूर्य की तरह सहर्ष स्तवन कर रहे इस महाराज जयकुमारके अभ्युदय ( सौभाग्य, पुण्यपरिपाक या उदय ) से शोभायुक्त मुनिनाथ ( अथवा कमल ) का मौन खुल गया। वे बोलने लगे हे राजकुमार, स्त्रियोंसे शोभित घरवाले तथा मधुरभाषी तुम्हारा सौमनस्य या पवित्रचित्तता क्या सफल नहीं होगी ? अर्थात् अवश्य होगी।॥ १११-१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org