________________
जयोदय-महाकाव्यम्
[१०३-१०४ भवत् । तस्य राशस्तावता ता इत्थं वक्ष्यमाणा आलायकारिण्यः प्रीत्युत्पादिन्यो गावो वाचः, चन्द्रपक्षे रश्मयश्च प्रसरन्ति स्म प्रसारमापुरिति पूर्वेण योगः ॥ १०२ ।।
कलशोत्पत्तितादात्म्य मितोऽहं तव दर्शनात् ।।
आगस्त्यक्तोऽस्मि संसारसागर श्चुलुकायते ॥ १०३ ॥ कलशेति । हे महर्षे ! अहं जयकुमारस्तव वर्शनात्, कलं च तत् शं सुखं धर्मो वा, तस्य उत्पत्तिः सम्प्राप्तिस्तया तादात्म्यमेकीभावमितो गतः । तथा च, कलशः कुम्भस्तत उत्पत्तिः प्रादुर्भावस्तस्यास्तादात्म्यमितः । आगसा अपराधेन त्यक्तो विहीनः । अथवा अगस्त्यस्य भाव आगस्त्यं ततः क्तप्रत्ययवान् भवामि । क्तप्रत्ययस्य घातूनामुक्तत्वात संज्ञासु अप्रसङ्गत्वात् अघटितघटनामाप्तोऽस्मीति भावः । तत एव संसार एव सागरः, स चुलुकायते प्रसृतिभावमाप्नोतीति ॥१०॥
ममात्मगेहमेतत्ते पवित्रः पादपांशुभिः ।
मनोरमत्वमायाति जगत्पूत निलिम्पितम् ॥ १०४ ॥ ममेति । हे जगत्पूत ! जगत्सु प्राणिमात्रेषु पवित्र, ते पावपांशुभिः चरणरेणुभिः निलिम्पितमुपलिप्तं भवत् ममात्मनो गेहमेतत् मदीयं मनः कुटीरकं मनोरमत्वं सुन्दरत्वमायाति ॥ १०४॥
अर्थ : उस समय उस राजा जयकुमारका आनन्दरूप समुद्र उमड़ पड़ा। अतः चन्द्रको किरणोंकी तरह उसकी वक्ष्यमाण ( आगे कही जानेवाली ) वाणी चारों ओर फैलने लगी अर्थात् वह बोलने लगा ।। १०२ ।।
अन्वय : तव दर्शनात् अहं कलशोत्पत्तितादात्म्यम् इतः आगस्त्यक्तः अस्मि । ( अतएव ) संसारसागरः चुलुकायते ।
अर्थ : भगवन् ! आपके दर्शनोंसे आज मैं सुन्दर सुख पाता हुआ पापरहित हो रहा है। अतएव मेरे लिए यह संसारसागर अब चुल्लूभर लगता है, जैसे कि कलशसे उत्पन्न अगस्त्य ऋषिके लिए समुद्र चुल्लूमें समा गया था ॥ १०३ ॥ ___ अन्वय : हे जगन्पूत ! ते पवित्रः पादपांशुभिः निलिम्पितं मम एतत् आत्मगेहं मनोरमत्वम् आयाति ।
अर्थ : प्राणिमात्रमें पवित्र गुरुदेव ! आपकी परम पवित्र चरणधूलिसे लिप्त यह मनःकुटीर मनोरम हो रहा है ॥ १०४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org