________________
१०१-१०२ ]
प्रथमः सर्गः
५५
अथेति । अथानन्तरं तं मुनिं त्रिः परीत्य त्रिवारं प्रदक्षिणीकृत्य, अतः पुनः नवनीतवत् विनीतः क आत्मा यस्य स नवनीतविनीतको हैयङ्गवीनवन्मृदुलतोपेतः, मुकुलितं मिथः संयोगेन कुड्मलतां नीतमात्मनः कररुहाम्बुजयोर्द्वयं येन सः, समुचितो निजहस्तपादादिसङ्कोचशीलः सन् स राजा साधुरेव सुधारुक् चन्द्रस्तस्य पुरतोऽग्रे स्थितस्तस्थौ ॥ १०० ॥
श्यामाशयं परित्यज्य राजा हर्षितमानसः ।
संश्रित्य जगतां मित्रं शुक्लं पक्षमिहाप्तवान् ॥ १०१ ॥ श्यामेति । राजा जयकुमार: चंन्द्रश्च श्यामश्चासौ आशयस्तं कलुषपरिणामं सङ्कल्पविकल्परूपकम् पक्षेऽन्धकारस्वरूपं कृष्णपक्षं परित्यज्य जगतां प्राणिनां मित्रं हितकरम्, पक्षे सूयं संश्रित्य गत्वा हर्षितमानस आह्लादितचित्तः, पक्षे मानसमित्युपलक्षणीकृत्य प्रसादितमानसाविजलाशयः सन् पक्षे इह भूतले शुक्लं पवित्रं निर्मलव पक्षं साध्यधर्माधारं मासाधं च आप्तवान् प्राप । चन्द्रः कृष्णपक्षे क्रमशः सूर्यमुपाश्रित्य पुनः शुक्लपक्षमेतीति प्रसिद्धि : ।। १०१ ।।
तावता ।
वर्द्धिष्णुरधुनाऽऽनन्दवारिधिस्तस्य इत्थमाह्लादकारियो गावः स्म प्रसरन्ति ताः ॥ १०२ ॥ वद्विष्णुरिति । अधुना साम्प्रतमानन्दवारिधिः सुखसमुद्रो वद्धिष्णुः वृद्धिशीलोऽ
अन्वय : अथ समुचितः नवनीतविनीतकः सः पुनः त्रिः परीत्य मुकुलितात्मक राम्बुरुहद्वयः सन् साधुसुधारुचः पुरतः स्थितः अभूत् ।
अर्थ : इसके बाद सुन्दर मक्खन के समान कोमल चित्त वह जयकुमार तीन प्रदक्षिणाएँ कर चन्द्ररूप उन साधु महाराजके समक्ष कमलरूप अपने दोनों हाथों को जोड़कर विनयपूर्वक बैठ गया ॥ १०० ॥
अन्वय : हर्षितमानसः राजा श्यामाशयं परित्यज्य जगतां मित्रं संश्रित्य इह शुक्ल पक्षम् आप्तवान् ।
अर्थ : जैसे समुद्रको हर्षित करनेवाला चन्द्रमा कृष्णपक्षको त्यागकर सूर्यके साथ सम्मिलित हो पुनः शुक्लपक्षको प्राप्त हो जाता है, वैसे ही प्रसन्नचित्त राजा जयकुमार भी अपने मनकी मलिनता त्यागकर जगत् के मित्र ऋषिराजको प्राप्तकर प्रसन्नचित्त हो गया ।। १०१ ।।
अन्वय : अधुना तस्य तावता आनन्दवारिधिः वधिष्णुः । अतः इत्थम् आह्लादकारिण्यः गावः प्रसरन्ति स्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org