SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जयोदय-महाकाव्यम् [ ९८-१०० भुवि महागुणमार्गणशालिना सुविधधर्मधरेण च साधुना । अभयमङ्गिजनाय नियच्छता यदपि मोक्षपरस्व तयास्थितम् ॥९८॥ भुवीति । भुवि पृथिव्यां महान्तो गुणस्थानानि च मागंणास्थानानि च तैः कृत्वा शालिना शोभनेन यद्वा गुणः प्रत्यञ्चा मार्गणोबाणस्ताभ्यां शालिना । सुविधः सम्यक्प्रकारकश्चासौ धर्मः सदाचारः चापश्च, तद्धारकेण साधना। अङ्गिजनाय प्राणिवर्गाय जनशब्दोऽत्र समूहवाचकः । अभयं निर्भयभावं नियच्छता दवता अपि मोक्षो भवान्तराभावो बाणस्य लक्ष्यश्च , तस्मिन् परः स्व आस्मा यस्य, तस्य भावः प्रत्ययस्तया स्थितं मुनिवरेण ॥ ९८ ॥ निजवतंसपदे विनियोज्य तन्मृदु यदीयपदाम्बुरुहद्वयम् । सुपरितोषमिताः पुनरात्मनोऽमरगणाश्च वदन्ति महोदयम् ।।९९॥ निजेति । अमरगणाश्च देवनिकाया अपि, पदावेव अम्बुरुहे कमले तयोदयम् यवीयञ्च तत्पदाम्बुरुहञ्च तत, मृदु कोमलं निजस्य स्वस्य वतंसपवे मुकुटस्थाने विनियोज्य योजयित्वा, आत्मनः सुपरितोषमिताः सन्तुष्टभावं गताः सन्तो महो व भाग्यशालित्वं वदन्ति । यद्वा-महोदयं तं महर्षि स्तुवन्ति ॥ ९९ ॥ अथ परीत्य पुनस्त्रिरतः स्थितः समुचितो नवनीतविनीतकः । मुकुलितात्मकराम्बुरुहद्वयः पुरत एव स साधुसुधारुचः ॥१०॥ अन्वय : भुवि महागुणमार्गणशालिना सुविधधर्मघरेण च अङ्गिजनाय अभयं नियच्छता अपि साधुना यत् मोक्षपरस्वतया स्थितम् । अर्थ : इस भूमण्डल पर ये साधु मुनिराज गुणस्थान और मार्गणाओंकी चर्चासे सम्पन्न हैं, उत्तम विधियुक्त धर्मके धारक हैं तथा प्राणिमात्रको अभय दान देते हैं। फिर भी ये मुक्ति प्राप्त करनेमें तत्परतासे लगे हुए हैं। दूसरा अर्थ : गुण (प्रत्यञ्चा) और मार्गणों ( बाणों से युक्त, उत्तम धर्म ( धनुष )के धारक ये साधुराज प्राणिमात्रको अभयदान देते हुए भी अचूक निशाना लगाने में भी तत्पर हैं ।। ९८ ॥ अन्वय : च अमरगणाः तत् यदीयपदाम्बुरुहद्वयं मृदु निजवतंसपदे विनियोज्य सुपरितोषम् इताः पुनः आत्मनः महोदयं वदन्ति । ___अर्थ : और देवता लोग भी उनके कोमल चरण-कमल-युगलको-अपने मुकुटके स्थान पर लगाकर सन्तुष्ट हो अपने भाग्योदयको सराहते हैं ॥ ९९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy