________________
९४-९५ ]
प्रथमः सर्गः
शिखरत इति । बृहत्तरोः अलघुवृक्षस्य आम्रादेः शिखरत उपरिष्टात् नभस आकाशात्, जगद्गुरोर्जगत्त्रयशास्तु: महर्षेः पवसरोरुहयोः चरणकमलयोः ये सुमचयाः पुष्पस्तबकाः पतन्ति ते रुचया शोभया शिवप्रिया मुक्तिलक्ष्म्याः प्रियाः प्रेमपूर्णा दृशां दृष्टीनां नयनोपभोगानां विभवाः कटाक्षा इव भान्तीति शेषः ॥ ९३ ॥ यतिपतेरचलादरदामरेःसुरुचिरा विचरन्ति चराचरे । अगणिताश्चगुणा गणनीयतामनुभवन्ति भवन्ति भवान्तकाः ॥१४॥
यतिपतेरिति। वरदां भयानामरेः शत्रोः संहारकस्यापि यतिपतेर्मुनिनायकस्य, अथ च यतेविश्रामस्य पतिः क्रियारहितस्तस्य, यतिपतेरपि संहारकारकस्येति विरोधाभासः । गुणाः क्षमासन्तोषावयस्ते कीवशा अचला निश्चला अपि चराचरे सम्पूर्णेऽपि जगति विचरन्तीति विरोधाभासः। तथा ते घलाश्चिरकालस्थायिनश्च ते चराचरे विचरन्ति विचारविषया भवन्ति, सर्वेऽपि लोकास्ताननुभवन्तीति परिहारः । तेऽगणिताः संख्यातीता अपि गणनीयतां गणनभावतामनुभवन्तीति विरोध: तस्मात् ते गणेः पूज्यपुरुषसमुदायै नीयतां संग्राह्यतां स्वीकुर्वन्तीति परिहारः । सुरुचिरा रुचिकारका जगतां प्रिया अपि भवस्य सुखस्य अन्तका भवन्तीति विरोषः तस्माद् भवस्य जन्ममरणात्मकस्य संसारस्य अन्तकाः नाशकाः भवन्तीति परिहारः ॥ ९४ ।। भुवि धुतोऽग्रविधिगुणवृद्धिमान् सपदि तद्धितमेव कृतं भजन् । यतिपतिः कथितो गुणिताह्वयः सततमुक्तिविदामिति पूज्यपात् ।।९५॥
__ अर्थ : अत्यन्त ऊँचे आम्रादि वृक्षके शिखरसे त्रिजगद्गुरु ऋषिराजके चरणों में जो फूलों के गुच्छ गिर रहे थे, वे ऐसे प्रतीत होते थे मानो, आकाशसे गिरते हुए मुक्तिलक्ष्मीके सुन्दर कटाक्ष ही हों ।। ९३ ॥
अन्वय : दरदां अरेः यतिपते: अचला सुरुचिरा अगणिताश्च गुणा: चराचरे विचरन्ति ते गणनीयता अनुभवन्ति भवान्तकाः च भवन्ति ।
अर्थ : भयोंके शत्रु अर्थात् अत्यन्त निर्भय ऋषिराजके निश्चल, रुचिपूर्ण तथा अगणित जो गुण इस विश्वमें व्याप्त हैं, वे समादर पाते हैं और संसारका अन्त करते हैं।
विशेष : यहाँ गणनीयता शब्दके दो अर्थ हैं, एक तो गिनने योग्य और दूसरा आदणीय । गिनने योग्य अर्थ से तो विरोधाभास अलंकार प्रकट होता है अर्थात् 'अगणित गुण' गणनीय या गिनने योग्य कैसे ? और आदरणीय अर्थसे उस विरोधका परिहार होकर उन गुणोंकी विशेषता प्रकट होती है ।। ९४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org