________________
८९-९०]
प्रथमः सर्गः
४९
अमृतं जलमेव सारो यस्यां तया नालिकयेव प्रचरजलधारिण्या च, श्रीवनमुखानमनु. कुर्वत उपवनवत्प्रफुल्लभावं गच्छतो भूपतेजयकुमारस्य सकलं समस्तमपि क्षेत्रं वपुः पक्षे स्थानञ्च अङ्करैः रोमोद्गमः हरिततृणश्च अङ्कितं व्याप्तमभूत् । 'क्षेत्रं शरीरे दारेषु इति विश्वलोचनः ॥ ८८ ॥
कण्टकित इवाकृष्टश्चक्षुर्दिक्षु क्षिपञ्छ नैरचलत् ।
छायाछादितसरणौ गुणेन विपिनश्रियः श्रीमान् ॥ ८९ ॥ ककित इति। श्रीमान जयकुमारः कण्टकः रोमाञ्चः पक्षे शङ्कभिर्युक्तः कण्टकितः सन् विपिनस्य वनस्य श्रियः शोभायाः स्त्रिया गुणेन मार्दवादिना, पक्षे रज्वा घाऽऽकृष्टो बलाद्वशीकृत इव, इतस्ततः पंक्तिबद्ध तरुच्छायाछादितायां सरणौ विक्षु चक्षुः क्षिपन्, इतस्ततोऽवलोकयन् सन् शनर्मन्दं मन्दमचलत् ॥ ८९ ।।
आरामरामणीयकमनुवदताऽदर्शि हर्षिताङ्गेन । सहसा सह साधुजनैः श्रीगुरुगुणितोऽमुनादेशः ।। ९० ॥
आरामेति । आरामस्य उद्यानस्य रामणीयकं सौन्दर्य मनुवदता वनपालेन प्रस्तुतं वनस्य सौन्दयं हुम् एवमेवेति समर्थयता हर्षिताङ्गेन रोमाञ्चितदेहेन अमुना राजा साधुजनैः शिष्यमुनिजनैः सह तिष्ठता श्रीगुरुणा महर्षिणा गणितो गुणवत्तामितो देशः स्थानं सहसा अशि, उत्सुकतयाऽदृश्यत ॥ ९० ॥
___ अन्वय : कंटकित. श्रीमान् विपिनश्रियः गुणेन आकृष्ट इव छायाछादितसरणौ दिक्षु चक्षुः क्षिपन् शनैः अचलत् ।
अर्थ : जैसे शंकाओंसे आहत कोई पुरुष दूसरे द्वारा डोरीसे खींचकर ले जाया जाता हुआ धीरे-धीरे चलता है वैसे ही रोमांचित जयकुमार भी वनश्री के गुणोंसे आकृष्ट होकर सघन वृक्षोंको छायासे युक्त रास्ते में इधर-उधर दृष्टि डालता हुआ धीरे-धीरे आगे बढ़ने लगा ॥ ८९ ॥
अन्वय : आरामरामणीयकं अनुवदता हपिताङ्गन अमुना सहसा साधुजनैः सह श्रीगुरुगुणितः देशः अदर्शि ।
अर्थ : वनपाल द्वारा किये जा रहे उस बगीचेकी सुन्दरताके वर्णनका 'हुँ हुँ' कहकर अनुमोदन करनेवाले और रोमाञ्चित देहवाले उस जयकुमारने एकाएक उस स्थानको देखा, जो साधुओंके साथ श्री ऋपि राजके सान्निध्य पाकर सौभाग्यशाली हो रहा था । ९० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org