________________
जयोदय- महाकाव्यम्
८७-८८
विचारस्य हारो हृदयालङ्कारो यस्य तस्मात् महर्षेः सकाशात् कारां कारिकां कीदृशों गुणाधिकारां गुणानामधिकारोऽधिकरणं यत्र तां गुणभूमिकामित्यर्थः । आराध्य सम्पूज्य, लब्ध्वा वा, कौतुकंविनोदभावः कुसुमंश्च सहितः सकौतुकोऽयं प्रत्यक्षलक्ष्यः आम्रतरः परपुष्टानां कोकिलानां परैरन्यैः पोषणकारिता परपुष्टाङ्गतास्तेषां वेशं प्रवेशं विशेषमलङ्करोति भूषयति पूरयति चेति ।। ८६ ।।
४८
निजमामनन्ति ।
अमी शमीशानकृपां भजन्ति जनुर्ह्यनूनं पादोदकं पक्षिगणाः पिबन्ति वेदध्वनिं नित्यमनूच्चरन्ति ॥ ८७ ॥
अमीति । अमी दृश्यमानाः पक्षिगणाः शकुनिसमूहाः शमिनां प्रशमभावभाज यतीनामीशानः स्वामी तस्य कृपामनुग्रहं भजन्ति पाप्नुवन्ति । ततो होते निजं जनुर्जन्म अनूनं महत्सफलमामनन्ति जानन्ति । एतस्य महर्षेः पादोदकं चरणप्रक्षालनजलं पिबन्ति नित्यं तथा पुनर्वेदस्य, आत्मकल्याणकरस्य द्रव्यानुयोगादिशास्त्रस्य ध्वनिमनूच्चरन्ति महर्षिपठितमनुवदन्तीत्यर्थः ॥ ८७ ॥ गिरेत्यमृतसारिण्या
श्रीवनश्चानुकुर्वतः ।
बभूव भूपतेः क्षेत्रं सकलं चाङ्कुराङ्कितम् ॥ ८८ ॥
गिरेति । इति पूर्वोक्तप्रकारया तदेतिश्लोकादारब्धया गिरा वनपालवाण्या । कथम्भूतया ? अमृतं सञ्जीवनं सारोऽस्यास्तीति तया, सुधावत्प्रसत्तिकारिण्या | पक्षे
अन्वय : अमी पक्षिगणाः शमीशानकृपां भजन्ति, निजं जनुः हि अनूनम् आमनन्ति पादोदकं पिबन्ति जनु नित्यं वेदध्वनिम् उच्चरन्ति ।
अर्थ : ये पक्षी गण इस समता सम्पन्नोंके शिरोमणि ऋषिराजकी कृपा पा रहे हैं अतएव अपना जन्म सफल मानते हैं । ये महर्षिका चरणोदक पीकर निरन्तर वेदध्वनि (आत्म-कल्याणकारी द्रव्यानुयोग- शास्त्र ) का उच्चारण कर रहे हैं ॥ ८७ ॥
अन्वय : इति अमृतसारिण्या गिरा श्रीवनं च अनुकुर्वतः भूपतेः सकलं च क्षेत्रम् अङ्कुराङ्कितं बभूव ।
अर्थ : इस प्रकार अमृतवत् जीवनदायिनी वाणी द्वारा बगीचेका अनुकरण करनेवाला जयकुमारका सम्पूर्ण शरीर रोमांचित हो उठा । जैसे अमृत यानी जलको बहानेवाली नालीसे खेत हरा-भरा अंकुरित हो उठता है, वैसे ही वनपालकी इस वाणीसे महाराज जयकुमार भी रोमांचित हो उठा, यह भाव है ॥ ८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org