________________
जयोदय-महाकाव्यम्
[ ८३-८४ श्रीचम्पका इति । कोषान्तरुत्थाः कुसुमनालमध्यादुद्गता येऽलय एवालिका भ्रमरा. स्तेषां दम्भवन्तश्छलकारिणः, अपायस्य प्रत्यवायस्य भिया भयेन पापानि दुष्कृतानि, उगिरन्तो वमितवन्तः श्रीचम्पकाः तिरस्तियंगरूपेण शिरश्चालनतः पुनः पुनरग्रभागचालनेन, अनेन सं पापवजितमेनं मुनिनाथं स्तुवन्तु इति युक्तमेव । भ्रमराश्चम्पकानामुपरि न तिष्ठन्तीति कविसमयः। तत उद्गच्छत्सु भ्रमरेषु श्यामतासाधय॑तः पापारोपः। चम्पकानां शिरश्चालनं स्वाभाविकम्, स्तावकानामेकतानतया शिरश्चालनं जातिः॥ ८२॥
आराम आरात्परिणामधामभपद्मकच्छमदृशाभिरामः । विलोकयन्लोकपति रजांसि मुश्चत्यसौ चानुतरस्तरांसि ॥८३॥
आराम इति । असौ आराम उपवनमपि परिणमनं परिणामो विकासप्राप्तिस्तस्य धामानि अधिकरणानि च तानि भूपन कानि पाटलपुष्पाणि तेषां छम छलं यस्याः सा चासो दृक् दृष्टिश्च तयाऽभिरामो मनोहरः । लोकपति नरशिरोमणि मुनि विलोकयन् सस्नेहं पश्यन् तथा कृत्वा तरांसि गुणान् अनुतरन् लभमानः सन्नसौ रजांसि कुसुमपांशून् पापानि वा मुञ्चति त्यजति । 'गुणे कोपेऽप्यभिमतं तरः' इति विश्वलोचनः ।।८३॥
अशोक आलोक्य पतिं ह्यशोकं प्रशान्तचित्तं व्यकसत्सुरोकम् । रागेण राजीवदशः समेतं पादप्रहारं स कुतः सहेत ॥८४॥
अशोक इति । अशोकं शोकवजितम् अत एव प्रशान्तचित्तं सुखासीनं सुरोक सम्यग्दीप्तिशालिन प्रसरत्प्रभामण्डलमित्यर्थः 'रोकस्तु रोचिषीति विश्वलोचनः । तं यतिमालोक्य योऽशोकनामा वृक्षो व्यकसत् विकासभावमगच्छत् । सोऽशोको निश्चिन्तो स्तुति कर रहे हैं, ठीक तो ही है । चम्पेपर भौंरे नहीं आते यह कवि-सम्प्रदायको प्रसिद्धि है ॥ ८२॥ - अन्वय : आरात् परिण।मधामभूप मकच्छद्म दृशाभिरामः असो आरामः लोकपति विलोकयन् तरांसि अनुतरन् रजांसि मुञ्चति । ..
अर्थ : इस समय प्रसन्नताके स्थान स्थलपद्मोंके व्याजसे सुन्दर दृष्टिवाला यह उपवन ( बगीचा ) इस लोकपति मुनिराजको देखकर गुणोंको प्राप्त करता हुआ बार-बार फूलोंका पराग छोड़ रहा है, मानो पापोंको हो त्याग रहा हो ॥ ८३ ॥ ___ अन्वय : अशोक मुनिम् आलोक्य प्रशान्तचित्तः अशोकः व्यकसन् सः रागेण राजीवदृशः समेतं प्रादप्रहारं कुतः सहेत !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org