________________
६६४
जयोदय-महाकाव्यम् [११२-११४ चरन्निकेतं परितस्तृणानि त्रुव्यद्वितानागगुणाप्तदोषः । निवारितः कर्मकरैः सरोषैर्मुक्तस्तुरङ्गः स्म निबध्यतेऽन्यः ॥११२॥
चरन्निति । कश्चित्तरङ्गो भुक्तः स्थानभ्रष्टो निकेतं निवासस्थानं परितो यानि तृणानि तानि चरन्, त्रुटयंश्च तद्वितानाग्रगुणस्तेनाप्तो दोषो येन स छिचमानोपकार्यानरज्जुलब्धापराधः, सरोषः क्रुद्धः कर्मकरंनिवारितोऽवरुद्धोऽन्यैनिबध्यते स्म ॥ ११२ ॥
उत्क्षिप्तकाण्डाम्बरमार्गसर्गिमन्दानिलेनास्तमिताध्वखेदः । दुर्वाप्रतानास्तरणेषु लेभे दृष्येषु निद्रासुखमङ्गनौषः ।।११३॥
उत्क्षिप्तेत्यादि । अङ्गनानां स्त्रीणामोघः समूह उत्क्षिप्तं यत्काण्डाम्बरं प्रत्यग्रवस्त्रं तस्य मार्गेण सर्गः समागमो यस्य स चासौ मन्दानिलो वातस्तेनास्तमितोऽपहतोऽध्वखेदो यस्य सः, दूर्वाणां प्रतानानितान्येवास्तरणानि येषु तेषु दूष्येषु वस्त्रगृहेषु निद्रासुखं लेभऽलभत ॥ ११३ ॥
मयो निपीता पयोमुखं स्वमुन्नीय ननं व्यवधूय भूयः । उदग्जलांशैरभिभूतकुम्भां शुचं निनायोदकहारिणी सः ॥११४। मय इति । मयः कश्चिदुष्ट्रो निपीतमद्ध" पयो येन तत् स्वं मुखमुन्नीयोच्चैः कृत्वा नक्र स्वं नासाग्रं भूयो वारम्वारं व्यवधूय धवित्वोवग्भिर्जलांशेरभिभूत उच्छिष्टतां नीतर कुम्भो यस्याः सा तामुदकहारिणीं पानीयनेत्री शुचं विषादं निनाय ॥ ११४ ॥
अन्वय : मुक्तः तुरङ्गमः निकेतं परितः तृणानि चरन् ब्युटयद्वितानाग्रगुणाप्तदोषः सरोषैः कर्मकरैः निवारितः अन्यैः निबद्धते स्म । ____ अर्थ : निवास स्थानके चारों तरफ उगे हुए तृणोंको चरता हुआ और तम्बूके रस्सेको तोड़ देनेके कारण अपराधी कोई घोड़ा रोषमें आये हुए नौकरोंके द्वारा निवारण किया गया, अर्थात् पुनः बाँध दिया गया ।। ११२ ॥
अन्वय : उत्क्षिप्तकाण्डाम्बरमार्गसगि मन्दानिलेनास्तमिताध्वखेदः अङ्गनौघः दूर्वाप्रतानास्तरणेषु दूष्येषु निद्रासुखम् लेभे । ___ अर्थ : खिड़कीको खोल देनेसे आती हुई जो मन्द-मन्द पवनके द्वारा दूर हो रहा है मार्गका खेद जिसका ऐसा स्त्रियोंका समूह उन डेरोंमें दूबके बिछौनेपर सुखसे नींद लेने लगा ॥ ११३ ॥
अन्वय : निपीतार्द्धपयः मयः स्वम् मुखं उन्नीय नक्रं भूयः व्यवधूय सः उदक जलांशः अभिभूतकुम्भां उदकहारिणीं शुचं निनाय ।
अर्थ : आधा पानी पीकर अपने मुखको ऊँचा उठाकर और अपनी नाकको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org