________________
११०-१११ ]
त्रयोदशः सर्गः
६६३
पार्श्वद्वये
निकेतनेत्यादि । उज्ज्वलस्य श्वेतवर्णस्य निकेतनस्य निवासस्थानस्य, उभयतः मां सौभाग्यवतीस्त्रीणां कुन्तलानां जालं समूहस्तद्वन्नीलं कृष्णवर्ण द्विपानां हस्तिनां वृन्दं तद् यथा विनस्य पूर्वापरभागयोर्भागाभ्यां वा बद्धं शार्वरं निशासम्बन्धि तमो भवति तथा बभौ रराज । दृष्टान्तालङ्कारः ॥ १०९ ॥
स्तम्भं समुत्खाय परास्तवारिः स्वातन्त्र्यमत्रातितरामवाप्य ।
सशृङ्खलः स्वस्य पदानुवृत्या दानं ददौ कुञ्जरराज एकः ।। ११० ।।
स्तम्भमिति । एकः कश्चिद् गजराजः परास्ता ध्वस्ता वारी गजबन्धनी येन स स्तम्भं बन्धनस्थूणमुखायातितरां स्वातन्त्र्यं स्वच्छन्दतामवाप्य शङ्खलया सहितः सशृङ्खलः स्वस्यात्मनः पदानामनुवृत्या ययापद्धति दानं भवं ददौ विससर्ज ।। ११० ॥
उन्नम्रवक्रो मयकश्चलोष्ठो ग्रीवां दधानः सरलां तरूणाम् । उदग्रशाखानवपल्लवानि प्रत्यग्रमृष्टानि मुदा जघास ||१११ ||
उन्नत्यादि । उन्नम्रमूर्ध्वगतं वक्रमाननं यस्य स ऊर्ध्वमुखः, चलावोष्ठौ यस्य सः, चपलदन्तच्छदः, ग्रीवां गलप्रदेशं सरलामृज्वों दधानो मयकः क्रमेलकस्तरूणां वृक्षाणां प्रत्यग्रमृष्टानि कोमलाप्रभागलभ्यानि, उग्रशाखानां नवपल्लवानि मुदा हर्षेण जघांसाघसत् । स्वभावोक्त्यलङ्कारः ॥ १११ ॥
अर्थ : शिविर स्थानके दोनों ओर हाथियोंका झुण्ड बाँध दिया गया था जो कि युवती स्त्रियोंके केशोंके समान काला था । वह ऐसा प्रतीत होता था मानों निर्मल (उज्ज्वल) दिनके पूर्व एवं अपर भागमें लगा हुआ रात्रिका अन्धकार ही हो ॥ १०९ ॥
अन्वय : कुज्जरराजः स्तम्भं समुत्खाय अत्र परास्तवारिः अतितराम् स्वातन्त्र्यम् अवाप्य सशृङ्खलः स्वस्य पदानुवृत्त्या दानं ददौ ।
अर्थ : उनमें से कोई एक हाथी खम्भेको उखाड़कर शृङ्खलाको तोड़कर सर्वथा स्वतन्त्र होकर पाँवमें श्रृङ्खलाको लिए हुए और अपने पैरों (चिह्नों) पर दानकी धारा छोड़ते हुए चला जा रहा था ।। ११० ।।
अन्वय : उन्नम्रवक्त्रः चलोष्ठः मयकः सरलां ग्रीवां दधानः तरुणं उदग्रशाखानवपल्लवानि संप्रत्यग्रमृष्टं स मुदा जघास |
अर्थ : मुखको ऊपर उठाये हुए चंचल होठ और लम्बी ग्रीवावाला कोई एक ऊँट ऊँची शाखावाले वृक्षोंके ऊपरकी शाखावाले नवीन पल्लवों को हर्षसे खाने लगा ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org