________________
जयोदय-महाकाव्यम्
बहिरेव जना महीस्थले सघनच्छायमहीरुहां तले । श्रमभावशा हि पद्धतेः क्षणमेके विरमन्ति च स्म ते ||७५ || वहिरिति । एके जना ये पद्धतेर्मार्गस्य श्रमभारस्य वशा परिश्रमश्रान्ता आसन्, ते सघना छाया येषां तेषां महीरुहां वृक्षाणां तले अधोभागे क्षणं बहिरेव महीस्थले विरमन्ति स्म ।। ७५ ।।
६५०
वसनाभरणैः समुद्धृतैरगमास्तत्र सुरद्रुमा हि तैः ।
अवभान्ति रमाः स्म सम्मिता जनताया वनतानित स्थिताः ॥ ७६ ॥
[ ७५-७७
वसनेत्यादि । तत्र वनस्य तानिते विस्तारे स्थिता अगमा वृक्षास्ते जनतायाः समुद्ध तैरङ्गेभ्य उत्तार्य धूतैवंसनानि चाभरणानि च तैः सम्मिता व्याप्ता अत एव रमा मनोहराः सुरद्रुमाः कल्पवृक्षा अवभान्ति स्म । उपमालङ्कारः ॥ ७६ ॥
विबभ्रुः श्रमवारिवासितान्यनुकूलानि मुखानि सुभ्रुवाम् | सजलानि सरोजवीरुधां कमलानीव कलानि कानिचित् ॥७७॥
विबभुरिति । नद्याः कूलमनु स्थितानि अनुकूलानि सुध्रुवां शोभना भ्रुवो यासां तासां मुखानि यानि श्रमवारिणा प्रस्वेदजलेन बासितानि युक्तानि तानि कानिचित् कलानि मनोहराणि सरोजवीरुधां कमलिनीनां सजलानि जलसहितानि कमलानीव विबभुः शुशुभिरे । उपमालङ्कारः ॥ ७७ ॥
अन्वय पद्धतेः श्रमभारवशा हि एके जनाः क्षणम् बहिरेव महीस्थले सघनच्छायमहीरुहां तले च ते विरमन्ति स्म ।
अर्थ : मार्गको थकावटके कारण कितने ही लोग कुछ देर के लिए तम्बुओंमें न जाकर सघन छायावाले वृक्षोंके तले बाहर भूमिमें ही विश्राम करने लगे ॥ ७५ ॥
अन्वय : तत्र वनतानितस्थिताः अगमा जनताया समुद्धृतैः तैः वसनाभरणैः सम्मिताः सुरद्रुमा हि रमाः अवभान्ति स्म ।
अर्थ : वनके क्षेत्रमें स्थित जो वृक्ष थे वे उस समय जनताके द्वारा उतार कर टाँगे गये सुन्दर वस्त्राभरणोंके द्वारा कल्पवृक्षोंके समान मनोहर प्रतीत होने लगे ।। ७६ ।।
अन्वय : श्रमवारिवासितानि सुभ्र ुवां अनुकूलानि मुखानि कानिचित् सजलानि सरोजवीरुधां कलानि कमलानि इव विबभुः ।
अर्थ : स्त्रियोंके मुखोंपर ( मार्गके परिश्रमसे) पसीना आ रहा था अतः वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org