________________
त्रयोदशः सर्गः
रजसि प्रबले बलोद्धते मदवारा गजराजसन्ततेः ।
शमिते गमितेच्छुभिः सुखादवबुद्धा पदवी पदातिभिः || २५ ||
रजसीति । बलेन सेनासमूहेन गमनेनोद्धृतं गमनव्याप्तं तस्मिन् प्रबले रजसि रेणौ च गजराजानां सन्ततेः परम्पराया मदवाः कटजलं तेन शमिते शान्ते सति तत्र गमितेच्छुभिगमिषुभिः पदातिभिः पादचारिभिर्लोकैः पदवीमार्गरथ्या सुखादवबुद्धाऽवगताभूत् ॥ २५ ॥
खुरपातविदारिताङ्गणैर्जविवाहैर्विषमी कृतेऽध्वनि ।
चलितं वलितं समुच्चलच्चरणत्वेन शताङ्गमालया ।। २६ ।।
खुरेत्यादि । खुराणां पातेन विदारितं विदीर्णमङ्गणं भूतलं यैस्तैः, जविभिरतिशीघ्रगामिभिर्वाहैर्घोटविषमीकृते नीचोच्चीकृतेऽध्वनि मार्गे तत्र शताङ्गानां रथानां मालया पङ्क्त्या समुच्चलन्ति चरणानि यत्र तथात्वेन वलितमरालतयैव चलितं गमनं कृतम् ॥ २६ ॥
२५-२७ ]
इतरस्य न वीरकुञ्जरः सहतेऽयं करपातमित्यसौ ।
रविराशु तिरोहितोऽभवद् व्यनपायिध्वजचीवरान्तरे ||२७||
६३१
इतरस्येति । अयं वीरकुञ्जरः शूरशिरोमणिर्जयकुमार इतरस्य कस्यापि करपातं शुल्कसमादानं फिरणक्षेपं वा न सहते किलेतोव संवदितुमसौ रविः सूर्यस्तदानीं व्यनपायीनि विच्छेदरहितानि ध्वजातानां चीवराणि वस्त्राणि तेषामन्तरेऽभ्यन्तस्तिरोहितोऽभववभूत् । उत्प्रेक्षालङ्गारः ॥ २७ ॥
अन्वय : प्रबले बलोद्धते रजसि गजराज सन्ततेः मदवारा शमिते गमितेच्छुभिः पदातिभिः पदवी सुखात् अवबुद्धा ।
अर्थ : सेनाके जमघटसे भूमिकी रज बहुत उड़ी, किन्तु गजोंके झरते हुए मदके जलसे वह वापिस दब गई, अतः गमन करनेकी इच्छावाले पदाति लोगोंको मार्ग सुख-प्रद ज्ञात हो रहा था ।। २५ ।
अन्वय : खुरपातविदारिताङ्गणैः जविवाहैः विषमीकृते अध्वनि शताङ्गमालया समुच्चच्चरणत्वेन वलितं नलितम् ।
अर्थ : वेगवाले घोड़ोंकी टापोंके पड़नेसे भूतल विदीर्ण हुआ मार्ग कुछ विषम (ऊबड़-खाबड़ ) होता जा रहा था उसमें रथोंकी पंक्ति तिरछी होकर चल चल रही थी ।। २६ ।।
अन्वय : अयं वीरकुञ्जरः इतरस्य करपातम् न सहते इति असौ रविः व्यनपायिध्वजचीवरान्तरे आशु तिरोहितः अभवत् ।
अर्थ : यह वीरकुंजर जयकुमार दूसरेके कर (टैक्स- हासिल) को सहन नहीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org