________________
त्रयोदशः सर्गः स्वजनानुविधानबुद्धिमाननुगन्तुगजपत्तनं पुनः
स पयोदपतिस्त्वकम्पनं रुचया याचितवान्नयान्निजम् ।।१॥ स्वजनेत्यादि । पुनः पाणिग्रहणानन्तरं, पयोदानां मेघानां पतिर्जयकुमार जनानां पित्रादीनामनुविधानं सम्भालनं तस्य बुद्धिर्विचारस्तद्वान् भवन् रुचया प्रेम्णा, अकम्पनं स्वश्वशुरं निजमात्मानं गजपत्तनं हस्तिनापुरं अनुगन्तु याचितवान् । नयादियं नीतिर्यद्विवाहानन्तरं वरः पत्नीमादाय स्वगृहं निवर्तेतेति ॥ १॥
न वदन्नपि काशिकापतिलनेतुर्गुणिनो महामतिः ।
शिरसि स्फुटमक्षतान् ददौ घुपकुर्वन्नपनोदकैः पदौ ।।२।। न वदन्निति । तदा महामतिः काशिकापतिरकम्पनो किञ्चिदपि न वदन्, किन्तु नयनोदकैवियोगजनितप्रेमाश्रुभिगुणिनो बलनेतुर्जामातुयकुमारस्य पदो चरणाबुपकुर्वन्नभिषिञ्चन् तस्य शिरसि स्फुटं स्पष्टरूपेण, मङ्गलसूचकानक्षतान् ददौ, चिक्षेप। हीति निश्चये । सहोक्तिरलङ्कारः ॥२॥
नगरी च वरीयसो विनिर्गमभेरी विवरस्य दम्भतः ।
भवतो भवतो वियोगतः खलु दूनेव तदाऽऽशु चुक्षुभे ॥३।। अन्वय : पुनः स्वजनानुविधानबुद्धिमान् स पयोदपतिः (जयः) निजं गजपत्तनं अनुगन्तु रुचया अकम्पनं याचितवान् ।
अर्थ : (विवाहके पश्चात्) अपने स्वजनोंके मिलनेकी इच्छासे अपने हस्तिनापुर नगरको जानेके लिए उस मेघोंके स्वामी जयकुमारने, सुलोचनाके पिता अकम्पन महाराजसे नीतिके अनुसार आज्ञा माँगी ॥ १ ॥
अन्वय : तदा न वदन् अपि महीपतिः काशिकापतिः नयनोदकैः बलनेतुः नयनोदकैः पदौ उपकुर्वन् स्पष्टं शिरसि अक्षतान् ददौ ।
अर्थ : काशिकापति अकम्पन महाराजने मुँहसे कुछ नहीं बोलकर जयकुमारके चरणोंको नेत्रोंके आसुओंसे अभिषिक्त करते हुए जयकुमारके मस्तकपर अक्षत अर्पण किये ।। २॥
अन्वय : नगरी च वरीयसो विनिर्गम-भेरीविरवस्य दम्भतः भवतः भवतः वियोगत खलु दूना इव तदा आशु चुक्षुभे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org