SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ४–६ ] त्रयोदशः सर्गः ६२३ नगरीति । तदा भवतो जयकुमारस्य भवतः सम्भवतो वियोगतो विरहतो दूना शुचमापन्नेव खलु नगरी काशीपुरी वरीयसोऽत्युच्चैः प्रसरतो विनिर्गमस्य प्रयाणस्य सूचिका या भेरी तस्या विरवस्य विशिष्टशब्दस्य दम्भतो मिषेणाऽऽशु तत्कालमेव चुक्षुभे क्षोभमवाप । अनुप्रासोत्प्रक्षयोः संसृष्टिः ॥ ३॥ समुपेत्य नियानडिण्डिमं कृतसत्त्वः स्वजनः प्रचक्रमे । पथि सादिवरः कृतेक्षणः कृतवानास्तरणं तु वारणे ||४|| समुपेत्येति । नियानस्य प्रयाणस्य डिण्डिममानकं समुपेत्य श्रुत्वा कृतः शीघ्रभावो वा निश्चयो वा येन स स्वजनो जयकुमारस्य जनः प्रचक्रमे प्रक्रमं कृतवान् । तत्र पथि मार्गे कृतमोक्षणं चक्षुर्येन स सादिवरो हस्तिपकस्तु वारणे हस्तिनि, आस्तरणं कुथं कृतवान् ॥ ४ ॥ सुदृढां स धुरं रथाग्रणी तवांश्चक्रयुगे सुसंस्कृताम् । कविकामविकारगामिनां लपने सम्प्रति वाजिनामपि ||५|| सुदृढामिति । यो रथाग्रणीः सारथिः स चक्रयोर्युगे सुसंस्कृतां सुदृढां धुरं धृतवान् । तथा सम्प्रति तदानोमेवाविकारगामिनामनुकूलगतिमतां वाजिनां हयानां लपने मुखे कविकां खलोनमपि घृतवान् ।। ५ ।। विकसन्ति कशन्ति मध्यकं स्म तदानीं विनिशम्य भेरिकाम् । पथिकाः पथिं कामनामया नहि कार्येऽस्तु मनाग्विलम्बनम् ||६|| अर्थ : उस समय सारी कांशी नगरी प्रयाणकी भेरीके शब्द के बहाने से जयकुमारके होनेवाले वियोगकी आशंकासे दुखी होती हुई; क्षोभको प्राप्त हुई ॥ ३ ॥ अन्वय : नियानडिडिमं समुपेत्य कृतस्तवः स्वजन: प्रचमे पथि कृतंक्षणः सादिवरः तु वारणे आस्तरणं कृतवान् । अर्थ : प्रस्थानको भेरीको सुनकर जयकुमारका जनसमूह शीघ्रता करनेवाला हुआ अर्थात् गमनकी तैयारी करने लगा । मार्ग में किया है दृष्टिपात जिसने ऐसे महावत ने अपने हाथोपर आस्तरण (झूल) डाला ॥ ४ ॥ अन्वय: सम्प्रति म रथाग्रणीः चक्रयुगे सुसंस्कृतां सुदृढां धुरं अविकारगामिना वाजिनां अनि लपने कविकां धृतवान् । अर्थ : तब सारथीने रथके चक्र में तेलसे चुपड़ी हुई दृढ़ घुरा लगाई और अच्छी तरह चलनेवाले घोड़ोंके मुँहमें लगाम लगाई ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy