________________
६२० जयोदय-महाकाव्यम्
[१४६ अस्मदित्यादि । सतामके महतां मध्ये पततीति सदरूपाती, पक्षे सत्सु प्रशंसायोग्येष्वङ्केषु ककारादिषु पतति प्रकटीभवति, इति स युष्मत्पदानां भवच्चरणानामागमगुण: समागमपरिणामः सोऽसौ, अन्यार्थस्य परोपकारस्यान्यपुरुष-वाच्यस्य साधकतया सुवंशे विचरन्नवतरन् सन्, अधुना अस्मत्पदस्य, अस्माकं स्थानस्य परिवादहरो निन्दापहरणकरोऽथवा त्वस्मत्पदस्य, उत्तमपुरुषवाचकस्य परिवादोऽसौ प्रतिपादकत्वं तद्धरो विभाति तावत् । इति स मिथो युष्माकमस्माकञ्च त्रिपुरुषों प्रपितामह-पितामह-पितलक्षणं प्रशंसेत् । एषा माण्डपिकोक्तिविद्यते ॥ १४५ ॥ सम्यक्त्वयाभिहितमस्मदुपक्रियार्थ,
युष्माभिरिङ्गितमिदं न पुनर्व्यपार्थम् । यत्कानि कानि न भवद्भिरिहार्पितानि,
हर्षत्तयाशु मुहुरस्मदभीप्सितानि ॥१४६।। सम्यगिति । त्वया भवता, अस्मदुपक्रियार्थमस्मद्धितार्थ सम्यक् समीचीनमभिहितं प्रोक्तम् । पुष्माभिर्भवद्भिविहितमिदमिङ्गितं चेष्टारूपं व्यपगतोऽर्थो यस्य तद्व्यपार्थ निष्प्रयोजनं नास्तीत्यर्थः । यद्भवद्भिरिह मुहुः पौनःपुन्येन, अस्माकमभीप्सिता नोत्यस्मदभीप्सितानि, अस्मदभिलषितानि हर्षत्तया प्रसन्नभावेन कानि कानि मणिरत्नगजाश्वादीनि वस्तूनि नापितानि न दत्तानि, अपितु सकलवस्तूनि दत्तानीति भावः । इयं जन्यजनोक्तिः ॥ १४६ ॥
___ अर्थ : (कन्या पक्षवालोंने कहा) आपके चरणोंके समागमका गुण सज्जनोंका समर्थक है और वह परोपकारकी दृष्टिसे उत्तम वंशमें वितरण करता हुआ हमारे स्थानके अपवादको दूर करने वाला हो। (आपके पधारनेसे हम सौभाग्यशाली हुए हैं) इस प्रकार कहकर उन्होंने आपसकी त्रिपुरुषीका-प्रपितामह, पितामह और पिता-सम्बन्धी तीन पीढ़ियोंका परिचय दिया ।। १४५ ॥
अन्वय : त्वया सम्यक् अभिहितम्-युष्माकम् इङ्गितम् इदं अस्मत् उपक्रियार्थं न पुनर्व्यपार्थं यत् इह भवद्भिः हर्षतया आशु मुहुः अस्मद्-अभीप्सितानि कानि कानि न अर्पितानि ?
अर्थ : पुनः बराती बोले-आपने वास्तवमें यथार्थ कहा है, हम लोगोंके उपकारके लिए ही आप लोगोंकी यह चेष्टा हुई है इसमें कोई अन्यथा बात नहीं है, क्योंकि हमारी मनोवांछित कौन-कौनसी वस्तुएँ प्रसन्नतापूर्वक पुनः पुनः आपने नहीं दी ? अर्थात् सब कुछ दिया है । १४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org