________________
६१६ जयोदय-महाकाव्यम्
[१३७-१३८ अस्माभिर्युष्माकमतिथिसत्कारो यथोचितरूपेण न कृतस्तावत्, किन्तु पुनरिदं स्पष्टपयोधरं सुखपुरं स्पष्टं पयो दुग्धमिष्टरसं धरतीति तच्छोभनं खपुरं क्रमुकं तथैव स्पष्टौ पयोधरौ यस्य तत्सुखस्य पुरं स्थानम्, कन्यारत्नमप्यस्ति, इत्येवमुदित्वा, गुणितेभ्यो गुणवद्भ्यो जनेभ्यो दत्तं क्रमुकं पूगीफलं प्रस्थानकालोचितं विविधमणि-मौक्तिकहिरण्यादि-इति लक्ष्यते । यौतुकपदार्थसमूहः पथो मार्गस्य पथ्यमन्नवस्त्रादिकं तद्वत्, मार्गस्य व्ययस्तवद् अभूत् ॥ १३६ ॥
मृदुतमपल्लवगुणसमवेतै खनेः कल्पानिपैः स्विदेतैः । शाखाचरणालम्बनभूतैः सहजायातविभवपरिपूतैः ॥१३७।। जनुजः सफलत्वं निगदद्भिः कुसुमानीव मुहुश्च वहद्भिः । उभयोरितरेतरमुक्तानि प्रसन्नभावादथ मुक्तानि ।।१३८॥
मृदुतमेत्यादि । अथ भोजनान्तरं ताम्बूलादिदानपुरस्सरमुभयोः पक्षयोः सम्बन्धिभिजनरेतैरवनेः कल्पाङ्घ्रिपैः भूलोककल्पवृक्ष रिव स्थितः, शाखाया आचरणं स्वकुलाचारस्य निर्वहणं, पक्षे शाखानां वृक्षप्रततीनां चरणस्य प्रफुरणस्य, आलम्बनभूतैः, सहजेन स्वभावेनायाता ये विभवा ऐश्वर्यानन्दा धनानि च, पक्ष पक्षिशावकास्तै परिपूतैः पवित्रैः, मृदुतमानां पल्लवानां, पदांशाना, पक्षे पत्राणां गुणैः प्रस्फुरणादिभिरवसरोचितत्वादिभिश्च समवेतैरलङ्कृतैरेवं प्रसन्नभावात् प्रीतिपरिणामात् । इतरेतरमन्योऽन्यमुक्तानि सम्वदितानि यानि सूक्तानि, कुशल-प्रतिकुशलकथनात्मकानि, तान्येव कुसुमानि, पुष्परूपाणि मुहुः पुनः पुनः वहद्भिः सन्दधद्भिर्जनुषो जन्मनः सफलत्वं, फलवद्वावम् निगदद्भिरद्य भवतां समागमेनास्माकं, जन्म सफलं जातम्, इति वदद्भिः स्थिरनिवासः कृतोऽभूदिति
अर्थ : आप लोगोंका अतिथि-सत्कार करने में हमारी कमी ही रही है, किन्तु अन्तमें यह स्पष्ट पयोधरवाला (ऊँचे स्तनवाला, दूधवाला) सुखपुर सुन्दर-सुपारोका टुकड़ा अथवा सुखका स्थान, पथका पथ्य भी तो साथ लेते जाओ इस प्रकार कहकर उन सब बारातियोंको प्रस्थान करते समय सुपारी भेंट की। १३६ ॥
अन्वय : अथ मृदुतमपल्लवगुणसमवेतः अवनेः कल्पाध्रिपः इव एतैः शाखाचरणालम्बनभूतैः सहजायातविभवपरिपूतैः जनुषः सफलत्वं निगद्भिः वहद्भिः मुहुश्च प्रसन्नभावात् उभयोः इतरेतरम् कुसुमानीव सूक्तानि उक्तानि ।
अर्थ : अब दोनों वर-वधू पक्षके लोगोंमें अन्तिम प्रेम सम्भाषण हआ। वे दोनों ही पक्षवाले कैसे हैं कि जिनके पल्लव (शब्द, पत्ते) कोमल है और शाखाचार (वृक्षकी शाखाओं एवं वंशकी पीढ़ियों) के कहनेवाले हैं। सहज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org