________________
४०
जयोदय-महाकाव्यम्
[ ७०.७१ रमेव लब्ध्वाऽवसरं हरारिः शरीरशोभाजयहेतुनाऽरिः । जयं विनिर्जेतुमियेष तातं तयाऽऽत्मशक्त्या खलु मूर्तया तम् ।।७।।
समङ्गनेति । समीचीना अङ्गनाः समङ्गनास्तासां वर्गः समूहस्तस्य शिरांसि मस्तकानि तेषु अवतंसो मुकुटरूपो गुणः, अघमोचनायाः पापादपेतायाः सुलोचनायाः सभाया भासहितायाः कान्तिमत्या गणात् प्रधानजनात् संगुणिता समथिता प्रशंसा यस्य स तादृशः, श्रुतयोः कर्णयोः प्रान्ते गतः प्राप्तः कृतः श्रवणविषयोकृतः । तमेव अवसरं समयं लब्ध्वा, आत्मोत्कर्षप्रस्तावं मत्त्वा स हरारिः कामः, शरीरस्य शोभायां जयो विजयो लब्ध इति हेतुतो अरिः स मम शोभां जितवान् इत्यतो घेरपरः कामस्तया सुलोचनया मूर्तया मूर्तिमत्या आमशक्त्या तया तं तातं पितृस्थानीयमपि जयकुमारं विनिर्जेतुमियेष चकमे, खलु सम्भावनायाम् । यथा सा जयकुमारेऽनुरागिणि तथा जयोऽपि तस्यामनुरागी बभूवेत्याशयः ॥ ६९-७० ॥ गुणेन तस्या मृदुना निबद्धः स योऽशनेः सन्ततिभित्समृद्धः । अलिबलादोरुविदारकोऽपि किमिष्यते कुड्मलबन्धलोपी ॥७१॥
गुणेनेति । यो जयकुमारोऽशनेर्वज्रस्यापि सन्ततिभित् सन्तानच्छेदकारकः समृद्धः ऐश्वर्यशाली, स तस्याः सुकुमार्या अबलाया मृदुना कोमलेन, पक्षे सत्त्वहीनेन गुणेन सौन्दर्येण निबद्धोऽभूदित्याश्चर्यम् । तदृष्टान्तेन निरस्यते-योऽलिभ्रमरो बलात् सामर्थ्येन दारुणः काष्ठस्य विदारको भेदक: सोऽपि कुड्लबन्धं कमलसङ्कोचरूपबन्धनं
अन्वय : ( जयकुमारेण ) अघमोचनायाः सुलोचनायाः समङ्गनावर्गशिरोवतंसः गुणः सभायाः गणात् संगुणितप्रशंसः श्रुतप्रान्तगतः कृतः। तम् एव अवसरं लब्ध्वा शरीरशोभाजयहेतुना अरिः हरारिः तातं तं खलु तया मूर्तया आत्मशक्त्या विनिर्जे तुम् इयेष ।
अर्थ : राजा जयकुमारने निष्पाप, तेजस्वी सुलोचनाके श्रेष्ठ स्त्रियोंके समूहमें मुकुटमणि गुण अपने दरबारी लोगोंसे सुन रखे थे। इसी अवसरसे लाभ उठाकर अपनी शरीर-शोभासे स्वयंको जीतनेवाले, अतएव अपने शत्रुरूप कामदेवने पितृस्वरूप होते हुए भी उस जयकुमारको सुलोचनारूप अपनी शक्तिसे जीतनेकी सोची ॥ ६९-७० ।।
अन्वय : यः अशनेः सन्ततिभित् समृद्धः सः तस्याः मृदुना गुणेन निबद्ध : । बलात् दारुविदारकः अपि अलिः किं कुड्मलबन्धलोपी इष्यते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org