________________
५९०
जयोदय-महाकाव्यम्
[७८-७९ ___ स्फुटरागेत्यादि । स्फुटस्य स्पष्टतामाप्तस्य रागस्य गीतस्य प्रेम्णश्च वशङ्गतोऽधोनो यो वंशो वाद्यविशेषः सम्प्रति सुतनोरबलाया अधरमोष्टं चुम्बति तावदिति वा किलेग्रया स्पर्धावशेन मञ्जुमनोहरा वाग्वाणी यस्य स प्रवालो वीणादण्डश्चासौ स्तनमण्डलमलङ्कृतवान् । यथा वंशो वदति स्म तथा वीणा । यस्य वंशो युवतिजनाधरचुम्बनपरायणो भवति तस्य शिशुरपि स्तनसंसक्तो भवत्येवेत्यर्थः ॥ ७७ ॥
पटहोऽवददेवमङ्कशायी मुरजोऽसौ तु जडः सदाभ्यधायि । सदसीह वंशजो हरेणुरदवासः परिचुम्बको नु वेणुः ।। ७८ ॥
पटह इति । पटहस्तु तत्रैवमेवावदत् किलासौ मुरजो मृबङ्गः स तु इह सबसि सदैव हरेणोर्युवत्या अङ्कशायी तस्या उत्सङ्गवर्ती भवन्, जडो बुद्धिहीनः स्थूलतरश्चाभ्यधायि । किञ्च वंशादुच्चकुलादथ च वेणुतो जातो वंशजो वेणुरपि हरेणोनवयौवनायाः स्त्रिया रदवाससोऽधरस्य परिचुम्वकः समास्वादनं करोतीत्याश्चर्यम् । नु इति वितर्के ॥७८॥ बहिरेव गुणैर्य एष तान्तस्त्वनुरागस्थितिाल्यते किलान्तः । पुनरस्ति विरिक्तको मृदङ्गः, स्फुटमाहेति स झझरोऽपि चङ्गः ॥७९॥
बहिरिति । य एष भवङ्गो रागं गीतमनुकृत्य स्थितियंत्र, यद्वा, अनुरागस्य प्रेम्णः स्थितियंत्र तद्यथा स्यात्तथा लाल्यते समनुभाव्यते । किल स बहिरेव केवलं गुणः सारैः
अन्वय : इह स वंशः सम्प्रति स्फुटरागवशङ्गतः सुतनोः अधरं चुम्बति इति ईषया वा मञ्जुलवाक् असौ प्रबालः स्तनमण्डलं अलङ्कृतवान् ।
अर्थ : वीणा-दंड इस प्रकार कहते हुए कि देखो कि यह वंशी-वाद्य स्पष्ट रूपमें राग (रागिनी, प्रेम) के वश होकर इस सुन्दरीके होठोंको चूम रहा है यह देखकर ईर्ष्यासे ही मानों सुन्दर बोलने वाला प्रवाल (वीणा-दंड) युवतिके स्तनमंडलका आलिंगन करने लगा ।। ७७ ।।
अन्वय : अङ्कशायी असौ मुरजः तु सदा जडः अभ्यध्यायि नु वंशजः वेणुः च इह सदसि हरेणुरदवासः परिचुम्बकः एवं पटहः अवदत् ।
अर्थ : इस पर पटह (नगारा) बोलने लगा कि देखो यह मृदंग जो कि युवतीकी गोदमें लेट रहा है वह तो जड़ है यह तो सब जानते हैं किन्तु जो वेणु है वह तो वंशज है फिर भी युवतीके होठका इस भरी सभामें चुम्बन कर रहा है यह एक आश्चर्यकी बात है ।। ७८ ॥
अन्वय : चङ्गः झर्झरोऽपि, य एष मृदङ्गः अनुरागस्थितिः (यथा स्यात् तथा) लाल्यते किल स बहिरेव गुणः तान्तः पुनः अन्तः विरिक्तकः अस्ति इति स्फुटं आह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org