________________
५८० जयोदय-महाकाव्यम्
[५३-५५ निपपात हि पातकातिगाया हृदि पुष्टा स्रगनङ्गमङ्गलायाः । स करः सकरङ्कभावतस्तां फलवत्तां नृपतेः समाह शस्तोम् ।। ५३ ॥
निपपापेति । पातकादतिगाया दूरवतिन्या अनङ्ग कामपुरुषार्थे मङ्गलरूपायाः सुलोचनाया हृदि वक्षःस्थले पुष्पस्रङ् निपपात यदा तवा हि नृपतेरकम्पनस्य स दक्षिणः करः करङ्कन भृङ्गारकेण सहितः सकरङ्कस्तद्भावतः शस्ता प्रशंसनीयां फलवत्तां समाह । कन्याप्रदानार्थ करे भृङ्गारकं जग्राह इति यावत् ।। ५३ ॥
घरति श्रियमेष एवमुक्तः सुतरां सोऽद्य बभूव सार्थसूक्तः । उदितोदकवर्तनादरुद्रस्तनयारत्नसमर्पकः समुद्रः ॥ ५४ ।।
धरतीति । श्रियं धरतीति श्रीधर इत्येवमुक्तः संज्ञप्तो राजाऽकम्पन: स एव चाद्य समुद्रो मुद्रया सहितो हस्ते मुद्राधारकोऽधुनोवितस्योवकस्य वर्तनाद् भाजनात् कारणभूतादरुद्रः सौम्यमूर्तिस्तनयारत्नस्य समर्पकश्च, इत्येवं रूपतया सार्थमूक्तो यथार्थनामा अभूत् ।। ५४ ॥
खलु पल्लवितोभितोऽयमत्र फलतात् प्रेमलताङ्कुरः पवित्रः । करवारिरहेऽभ्यसिञ्चदारादिति वारां नृपतेर्जयस्य धाराम् ॥ ५५ ॥
खल्विति । अत्र प्रसङ्ग, एष प्रेमलताया अङकुरो यः पवित्रः सोऽयमभितः पल्लवितो वृद्धि गतः सन् फलतात् सफलो भवेविति किल जयस्य वरराजस्य कर एव वारिरहं तस्मिन्
अन्वय : पातकातिगायाः अनङ्गमङ्गलायाः हृदि पुष्पस्रग् निपतात हि स नृपतेः करः सकरङ्कभावतः तां शस्तां फलवत्तां समाह ।
अर्थ : जब अनंगके लिये मंगलस्वरूप और पातकसे दूर रहनेवाली अर्थात् निष्पाप सुलोचनाके वक्षस्थलपर फूल माला आई, तभी अंकपन महाराजका हाथ झारी लिये हुए होनेसे फलवत्ताको प्राप्त हुआ । अर्थात् कन्या-दानके लिए महाराज अकम्पनने भृङ्गारको हाथमें लिया ।। ५३ ।।
अन्वय : एष श्रियं धरति एवम् उक्तः सः अद्य उदितोदकवर्तनात् अरूद्रः तनयारत्नसमर्पकः सभुद्रः सार्थसूक्तः सुतरां बभूव ।।
अर्थ : अकम्पन महाराज श्रीधर तो नामसे थे ही, किन्तु झारीमेंसे जल छोड़नेके कारण और तनयारत्नके समर्पण करनेके कारण स्पष्टरूपसे भद्र समुद्र बन गये ।। ५४ ।।
अन्वय : नृपतिः खलु अत्र पवित्रः प्रेमलताङ्करः अयम् अभितः पल्लवितः फलतात् इति जयस्य करवारिरूहे आरात् बाराम् धाराम् अभ्यसिञ्चत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org