________________
५७८
जयोदय-महाकाव्यम्
[४८-५० मम दोहृदि वाचि कर्मणीव किमु धर्म हि च नर्मशर्मणी वः । लभतामियमङ्गजा जगन्ति पुरुपर्वाभिनयात् स्वयं जयन्ती ॥ ४८॥
ममेति । हे महानुभाव, वाचीव कर्मणीव वा मम हृदि मनस्यपि वः शुद्धिभावो वर्तते, मनसा, वचसा, कर्मणा शुद्धो भवन् वदामीति यावत्, पुरोरादिदेवस्य पर्वाभिनयात् कृपानुभावात् स्वयमपि जगन्ति भुवनानि जयन्तीयं वोङ्गजा भवतां तनुसम्भवा केवलं धर्म हि किमु, अपि तु नर्मशमणी, अर्थकामपुरुषार्थों-अपि लभताम् । अहं त्रिवर्ग-सम्पावनपुरस्सरमिमां सम्भालयिष्यामीति भावः ॥ ४८॥
मुदिरस्य हि गर्जनं गभीरमुदियायोचितमेव यत्सुवीर । धरणीधरवक्त्रतः पुनस्तत् प्रतिशब्दायितमित्यभूत्प्रशस्तम् ।।४९।।
मुदिरस्येति । मुदः प्रसन्नताया इरा स्थानं यत्र तस्य मुदिरस्य वरस्यैव मेघस्य गर्जनं स्पष्टपरिभाषणं गभीरमतिशयगर्भपूर्ण यत्किलोचितं समयानुसारमुदियाय प्रकटीबभूव । तदेवाश्रित्य हे सुवीर, भ्रातः, धरणीधरस्याकम्पनस्य हि पर्वतस्य वक्त्रतो मुखात् पुनरित्येवं वक्ष्यमाण-प्रकारं प्रशस्तं प्रतिशब्दायितमिवाभूत् । यथा मेघगर्जनेन पर्वतात्प्रतिध्वनिर्भवति तथैव प्रतिशब्दायितमिवाभूत् ॥ ४९ ॥
नयतो जय तोषयेरुपेतां प्रणयाधीनतया नितान्तमेताम् । तनयां विनयाश्रयां ममाथानुनयाख्यानकरीति रीति-गाथा ॥ ५० ॥
अन्वय : मम हृदि वाचि कर्मणीव दः वः इयं अङ्गजा पुरुपर्वाभिनयात् स्वयं जगन्ति जयन्ती धर्म हि किम्, अपि च नर्मशर्मणी लभताम् ।
अर्थ : मेरे हृदयमें, वचन और कर्ममें शुद्धि है (मैं मन वचनकायसे कहता हूँ) कि यह आपकी तनया धर्मको ही क्या, बल्कि पुरुदेव (ऋषभनाथ) की कृपासे स्वयं तीनों जगतोंको जीतती हुई धर्म, नर्म (अर्थ) और शर्म (सुख) इन तीनोंको प्राप्त होगी ।। ४८ ॥
अन्वय : हे सुधीर ! यत् मुदिरस्य हि गभीरं गर्जनं उदियाय, पुनः घरणीधरवक्त्रतः प्रतिशब्दायितं इत्येवं प्रशस्तं अभूत् ।।
अर्थ : हे सुवीर ! (पाठक) इस प्रकार मेघ (हर्षित) जयकुमारकी गम्भीर गर्जनाको सुनकर सुन्दर प्रतिध्वनिके समान अकम्पन महाराजरूपी धरणीधर अर्थात् पर्वतके मुखद्वारा वक्ष्यमाण प्रकारसे प्रतिध्वनि निकली ।। ४९ ॥
अन्वय : हे जय ! एतां विनयाश्रितां तनयां नितान्तं प्रणयाधीनतया उपेतां नयतो तोषयेः, अथेति अनुनयाख्यानकरी मम रीति-गाथा अस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org