SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ६४ ] प्रथमः सर्गः ३७ रमासमाज इति । चारौ मनोहरे रमाणां स्त्रीणां समाजे मदनस्य कामस्य समुद्दोपकः सः, तदवलोकनेन स्त्रियः कामातुरा भवन्तीत्यर्थः । अरौ शत्रौ स्मयस्याश्चर्यस्य समुद्दीपकः, यस्य अनन्यसम्भवां शक्ति दृष्ट्वा शत्रवोऽपि साश्चर्या जाता इति । मस्यापराधस्य पापाचारस्यारिः शत्रुस्तस्मिन् साधुजने विनयस्य समुद्दीपकः सत्पुरुषाणां सत्कारपर इति, कुले गोत्रे स मुदो दोपको हर्षकरः । अथवा माराविति प्रत्येकविशेषणम् । यथा मायाः लक्षम्या अरौ शत्रौ, निजसौन्दर्येण श्रिया सह स्पर्धाकारकत्वात् । मस्यापराधस्य अलि: पङ्तिर्यस्य तस्मिन्नरौ शत्रौ, रलयोरभेदात् । इत्येवं कृत्वा, नु विस्तारस्य उमा कान्तिर्यस्याः सा, कज्जलधूमभूमा कज्जलधुमस्य बाहुल्यमेवास्य कचानां केशानां छलाद् बभूव । स राजा पूर्वोक्तरीत्या स्त्रीसमाजे, शत्रुसमाजे, सज्जनसमाजे च सर्वत्रव दीपक । तस्माद् दीपकभावतया तत्र कज्जलेनापि भवितव्यमेव । तच्च कचा एव, वर्णसाम्यादिति भावः ॥ ६३ ॥ मनो मनोजन्मनिदेशि भूपेऽमुष्मिञ्छिया पावनयाऽनुरूपे । श्रुतिं गते कम्पनभूपपुत्री युवाह सा रूपसुधासवित्री ॥६४॥ मन इति । अमुष्मिन्नुपयुक्त पावनया पवित्रया थिया शोभयाऽनुरूपे तुल्यरूपे श्रुति गते सति श्रवणपथमागते सति रूपसुधायाः सवित्री, अकम्पनभूपस्य पुत्री सुलोचना सा मनः स्वान्तःकरणं मनोजन्मनिदेशि कामदेवनिर्देशक रमुवाह दधार, तेन सह पाणिग्रहणाभिलाषिणी बभूव ॥ ६४ ॥ ___ अन्वय : चारौ रमासमाजे मदनस्य च अरौ स्मयस्य मारौ विनयस्य च कुले सः मुद्दीपकः इति अनूमा कचच्छलात् कज्जलधूमभूमा। ___ अर्थ : वह राजा सुन्दर स्त्रियोंके समूहमें तो कामदेवको, शत्रुओंमें आश्चर्य को, 'म' अर्थात् अपराधीके अरि पुण्यशाली जीवोंमें विनयको बढ़ानेवाला एवं कुलका भी आनन्द-दीपक था। इस अनुमानको सत्य सिद्ध करनेके लिए उसके मस्तकपर बालोंके व्याजसे कज्जलका समूह इकट्ठा हो रहा था ।। ६३ ॥ अन्वय : अकम्पनभूपपुत्रो या रूपसुधासावित्री सा पावनया धिया अनुरूपे अमुष्मिन् भ पे श्रुति गते मनः मनोजन्मनिदेशि उवाह । अर्थ : महाराज अकम्पनकी पुत्री सुलोचनाने, जो रूपसुधाको जन्म देनेवाली थी, उस राजा जयकुमारकी जब बड़ाई सूनी तो उसने उसे पवित्र शोभाके द्वारा अपने समान पाया। इसलिए उसने उसोके विषयमें अपना मन आकृष्ट किया । अर्थात् जयकुमारके साथ मेरा पाणिग्रहण हो, ऐसा विचार किया ॥ ६४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy