________________
जयोदय-महाकाव्यम्
[ ५८-५९
आदर्शमिति । अशेषा चासौ भूः पृथिवी तस्या मानवा नरास्तेषां मानः प्रतिष्ठा तद्भूः तत्र भवा या मा लक्ष्मीः सा सम्पूर्ण पृथिवीतलगत मनुष्याणां मान्यतासम्भवा लक्ष्मी: प्रकरणगतस्य उत्तमस्य प्रशंसनीयस्य नृपस्य पदं चरणं गत्वा चरणारविन्दं नत्वेत्यर्थः । अङ्ग ुष्ठस्य नखमेव आदर्श दर्पणं प्रपश्य दृष्ट्वा । तथा च आदर्शम् अनुसरणस्थानं प्रपश्य मत्त्वानुसुखं यथासुखं बभार घुतवती । दर्पणं दृष्ट्वा प्रसन्न मुखत्वं दधतीति स्त्रीजातिः । तथा पुनः सर्वेषां मनुष्याणां प्रतिष्ठाऽस्य पदाङ्ग ष्ठदर्शनादेवेति भावः । अशेषभूमानवानां मानभुवो राजानस्तेषां मा सर्वेषामपि राज्ञां प्रतिष्ठेति वा ।। ५७ ।।
३४
सद्मा पद्मा हृदि नाभिकापि तन्मङ्गलाप्लावनलापि वापी | विहमारशर्मोपवनं तु दूर्वाः पर्यन्ततो लोममिषाददुर्वा ॥ ५८ ॥
सद्येति । पद्मा लक्ष्मी हृवि हृदये जयस्येति शेषः, सद्य स्थानमवाप, नाभिका तस्य तुण्डी तस्था मङ्गलाप्लावनं मङ्गलस्नानं तस्य वाप्याऽऽपि । पर्यन्ततोऽभितो लोममिषात् मृदुलबालव्याजाद् दूर्वाः नामकाः हरिताङ्क ुराः, विहारस्य पर्यटनस्य शर्म सुखं यत्र तत् सभ्वरणसुखकरमुपवनमेव अदुः दत्तवत्यः ॥ ५८ ॥
छलेन लोम्नां कलयन, शलाका यूनो गुणानां गणनाय वा काः । अपारयन् वेदनयान्वितत्वाच्चिक्षेप ता मूर्ध्नि विधिर्महत्वात् ॥ ५९ ॥
अर्थ : इस धरातलपर स्थित संपूर्ण राजाओंका समूह उस उत्तम राजाके चरणोंको प्राप्तकर उसके अंगुष्ठके नखको आदर्श ( दर्पण या आदरणीय ) रूपमें देखकर सुखी होता हुआ अपना मुख प्रसन्न रखने लगा ॥ ५७ ॥
अन्वय : (अस्य) हृदि पद्मा सद्म आप । अपि वा नाभिका अपि तन्मङ्गलाप्लावनला वापी, यां पर्यन्ततः लोममियात् तु दूर्वाः विहारशर्मोपवनं अदुः ।
अर्थ : उस राजाकी हृदयस्थलीमें लक्ष्मीने अपना निवास बना लिया था । अतः उसके मंगलस्नान के लिए जो बावड़ी बनी थी, वह नाभिका के नामसे प्रसिद्ध थी । उसीके चारों तरफ लोमोंके व्याजसे जो दूर्वाएँ लगी थीं, वे उस लक्ष्मीके विहारके उपवनकी पूर्ति कर रही थीं ॥ ५८ ॥
अन्वय : विधिः यूनोः गुणानां गणनाय वा लोम्नां छलेन काः शलाका कलयन् वेदनया अन्वितत्वात् अपारयन् महत्त्वात् ताः मूर्ध्नि चिक्षेप ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org