________________
६९-७१ ]
एकादशः सर्गः
५४१
काला हि बालाः खलु कज्जलस्य रूपे स्वरूपे गतिमज्जलस्य । स्पर्श मृदुत्वादुत मृक्षणस्य तुल्या स्मरारेर्गललक्षणस्य ।। ६९ ।। कालाहीति । अमी बालाः केशा हीति निश्चयेन कालाः श्यामलास्ते अभी रूपे कज्जलस्य तुल्याः, स्वरूपे प्रसरणे गतिमतो जलस्य तुल्याः, स्पर्शे मृदुलत्वात्को मलत्वादुत तो क्षणस्य नवनीतस्य तुल्याः । एवञ्च वृशां चक्षुषामुत्सवस्य रूपे स्मरारेर्महादेवस्य गलस्य लक्षणं कृष्णत्वं नीलत्वं वा तस्य तुल्या नीलकान्तयश्चासन् ॥ ६९ ॥
वेणीयमेणीदृश एव भायाच्छ्रेणी सदा मेकलकन्यकायाः । हरस्य हाराकृतिमादधाना यूनां मनोमोहकरी विधानात् ।। ७० ।।
वेणीयमिति । इयमेणीदृशी मृगीसदृशनेत्राया एव वेणी भायात्, या मेकलकन्यकाया नर्मदाया नद्याः श्रेणी प्रवाह तुल्या वर्तते । यथा नर्मदाया जलप्रवाहः श्यामलो गतिश्च कुटिला तथैव तस्या वेष्यपीति भावः । पुनः कथम्भूता ? हरस्य महादेवस्य हारो गलालङ्कारः सर्पस्तस्याकृतिमादधाना धारयन्ती, अत एव यूनां तरुणानां मनोमोहकरी सम्मोहिनी ॥ ७० ॥
विराजमाना यमुना मुखेन सुधाकरेणापि तथा नखेन । अवर्णनीयोत्तमभास्करा वा निशा यथा शस्यतमस्वभावा ।। ७१ ।।
अन्वय : ( सुलोचनायाः) वालाः कालाः हि रूपे खलु कज्जलस्य तुल्याः स्वरूपे गतिमज्जलस्य तुलाः उत स्पर्शे मृदुत्वत् मृक्षणस्य तुल्याः (दृगुत्सवे च) स्मरारेः गललक्षणस्य तुल्याः (सन्ति) ।
अर्थ : सुलोचनाके सिरके बाल काले हैं, जो निश्चय ही रूप (रंग) में काजलके समान हैं; स्वरूप ( फैलाव ) में बहते पानीके समान हैं; स्पर्शमें कोमलता के कारण मक्खनके समान हैं और दृष्टिको सुख देने में कामारि नीलकण्ठ भगवान् शङ्करके गलेके चिह्नके समान हैं ॥ ६९ ॥
अन्वय : इयम् एणीदृशः एव वेणी भायात् (या) सदा मेकलकन्यकायाः श्रेणी हरस्य हाराकृतिम् आदधाना विधानात् यूनां मनोमोहकरी ( वर्तते ) ।
अर्थ : यह, मृगनयनी सुलोचनाकी ही चोटी सुशोभित हो, जो सर्वदा नर्मदा नदी की धाराकी भाँति (काली तथा कुटिल (घुंघराली ) ) है, और भगवान् शङ्करके हार-सर्पकी आकृतिको धारण करती हुई अपनी निराली रचनासे तरुणोंके मनको मोह उत्पन्न करने वाली है ॥ ७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org