________________
६०-६२]
एकादशः सर्गः सुनासिका चञ्चु बृहच्छरीरः-यदीष्यते सम्प्रति मारकीरः । दन्तावली दाडिमबीजभुक्तिः प्रबालशुक्तिः प्रथिताघरोक्तिः ।। ६० ।।
सुनासिकेति । सम्प्रति मारकोरः कामदेवशुको यदि सुनासिका एव चञ्चू यस्यैवं भूतं बृहच्छोभनीयं शरीरं यस्य स इष्यते तदा दन्तावल्येव वाडिमबोजानि तेषां भुक्तिभॊजनस्थितियत्र साऽधर इत्येवं प्रकारोक्तिर्नाम विशेषो यस्याः सा प्रबालकृता शुक्तिमुक्कास्फोटाभिव्यक्तिः प्रथिता सुप्रसिद्धाऽस्ति ।। ६०॥ जित्वा त्रिलोकी स्विदमोघवाणस्तूणी द्विवाणीं विफलां विजानम् । तत्याज मारोऽथ सुगन्धगम्या नासेति धात्रा रचिता सुरम्या ॥६१।।
जित्वेति । स्विदथवा, अमोघवाणः सफलशरसाधनः स मारः कामस्त्रिभिर्वाणैस्त्रयाणां लोकानां समाहारस्त्रिलोकी तां जित्वा पुनद्वौं वाणौ यस्यां सा द्विवाणी तां स्वकीयां तूणीं विफलां निष्फलां ।विजानन्, तत्याज मुक्तवान् । अथ सा पुष्परूपत्वात्सुगन्धेन गम्येति कृत्वा धात्रा विरञ्चिनाऽस्या सुरम्या नासा नासिका रचितेति समुत्प्रेक्ष्यते । उत्प्रेक्षालङ्कारः ।। ६१॥
अपूर्वरूपाममुकी विधातु श्रीमङ्गलोक्ती रुचितैव धातुः । अत्रत्यविस्मापनदैवतायाप्तिापि नासा खलु गुल्गुलाया ॥६२।। अन्वय : सम्प्रति मारकीरः यदि सुनासिकाचञ्चुबृहच्छरीरः इष्यते (तदा) दन्तावलीदाडिमबीजभुक्तिः अधरोक्तिः प्रबालशुक्तिः प्रथिता ।
अर्थ : इस समय कामदेवरूपी तोतेको यदि सुन्दरनाकरूपी चोंचसे युक्त बड़े शरीरका मान लिया जाये तो दन्तपङि क्तरूप अनारदानोंका भोजन जहाँ हो वह अधर नामक मूगेकी शीप सुप्रसिद्ध हो जाती है (?) ।। ६० ॥
अन्वय : स्वित् अमोघबाणः मारः त्रिलोकी जित्वा द्विवाणी तणीं विफकां विजानन् तत्याज अथ धात्रा (अस्याः) सुगन्धगम्या रम्या नासिका रचिता इति ।
अर्थ : अथवा लक्ष्यवेध करने में जिसके बाण सफल है, उस कामदेवने तीनों लोकोंको ( केवल एक-एक बाणसे ) जीत लिया; तो उसने शेष दो बाणों से युक्त तूणी ( तरकस ) को व्यर्थ समझते हुए छोड़ दिया। इसके पश्चात् ब्रह्माने उस तूणी से इस सुलोचनाकी, सुगन्धिके माध्यमसे जानने योग्य ( क्योंकि कामदेवके बाण, जो फूलोंके थे, उस तूणी-तरकसमें रखे हुए थे ) सुन्दर नासिका बना दी ॥ ६१॥ __ अन्वय : अपूर्वरूपाम् अमुकी विधातु धातुः धीमंगलोक्तिः रुचिता एव अपि (च) अत्रत्यविस्मापनदैवताय अर्पिता या गुल्गुला खलु सा नासा (सञ्जाता)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org